________________
( १६०) अरुणः, रक्ततलः अछिद्रः, अङ्गुल्यन्तरेऽनवकाशः । अस्वेदः रसाधिक्यादक्लिन्नः स्निग्धश्चिक्कणोनरूक्षः मांसलः, पुष्टः, श्लक्ष्णस्त्वचिदीप्तिमान् ताम्रवद्रक्तः नखः, दीर्घाङ्गुलिः । विपुलः प्रथूलतलं इति ॥ १० ॥ हस्तमूल लक्षणमाह----
पाणिमूलं दृढं गूढं श्लाध्यं सुश्लिष्टसंधिकम् । श्लथं सशद्धं ह्रस्वञ्च निर्धनत्वादिदुः खदम् ॥ ११ ॥
पाणिमूलमिति । प्राणवन्धस्थानं दृढनिर्विः नामितुमशक्य गूढमप्रक टकूर्परास्थिप्रान्तं श्लाध्यं शुभं यत्र अस्थिसन्धयो नलक्ष्यन्ते, तद्विपरीतं श्लथं शिथिलं करचालने शद्वं कुर्वत् हीनंतुळं अशुभमित्यर्थः ॥ ११ ॥ पाणितलस्वरूपमाह--
धनी पाणितले रक्ते नीले मद्यं पिवेन्नरः ।
अगम्यागम्यः स्यातपीते कल्माषे धनवर्जितः ॥ १२ ॥ घनीति । स्पष्टम् । अगम्यात्र राजवनिता वाचाण्डाली कुमारी वा । कल्मषं चित्रलेकरमिति यावत्, सामुद्रिकतिलके तु पादतलमाश्रित्य वंशछिदे कषायं विजहत्यायै विपक्वमृत्सदृशं पतिमगम्यारतये कृष्णंस्थान्मद्यपानाय इति ॥ १२ ॥
दातोन्नते करतले निम्ने न स्यात् पितुर्धनम् ।
धनी निम्ने च संवृते निर्धनो विषमे पुमान् ॥१३॥ दातेति । मध्ये उन्नतं यत्र जलं न तिष्ठति । निम्नं नीचैर्वृत्तिविपुले कृतेऽपि यत्र जलं तिष्टति तस्य म्वोपार्जितंधनं न पुनः पितृसत्कं किञ्चित्तिष्टति वर्तुले निम्ने चेति गुणद्वय युक्ते तलेधनीकृपणः विषमेऽङ्गुलीमूलादिभागे यत्रोन्नतिर्युज्यते तत्र निम्नत्वे मध्ये भाण्डागारादिस्थाने उन्नतत्वे सतीत्या द्वम्यम् ॥ १३ ॥ ग्रन्थान्तर सम्मत्या तलस्वरूपं दृढयति ।
फुडियाय गूढ गुफा विरलंगुलि विसम यच्च संपता निग्मं साम्य परा हुति ॥ १४ ॥
"Aho Shrutgyanam"