________________
( १५८ )
एव प्रयत्नाधिक्यात् स्त्रीणां मात्रं गात्रयान्तर्भूतशोणिताधिक्येन वक्रस्वभावात् भोगाङ्ग प्राधान्याद्वामाङ्ग एव प्रयत्न अत एव पुंसो गर्भेऽपि दक्षिण कुक्षिस्थानं स्त्रिया नामकुक्षिः उत्पत्तावपि शुक्राधिक्ये पुमान् रक्ताधिक्ये स्त्री इति मात्रापितृजन्यशुक्रशोणितादि साधारण्येऽपि तारतम्यं तथाऽत्रापि तेनैव पुंसो ज्ञाने स्त्रियास्तु जाडये आधिक्यं प्रत्यक्षं तेनावयवद्वये बाह्यवृत्त्या साम्ये सत्यपि रेखातिलकनखादि वैषम्यस्यापि दृश्यमानत्वात् कोमले तरतायां वामायामयोर्विशेष संभव इति ॥ ६ ॥
अत्रार्थे सम्मतिमाह -
यदुक्तं
वामभागे तु नारीणां दक्षिणो पुरुषस्य च । विलोक्य लक्षणं विज्ञैः सर्वमायुः पुरःसरम् ॥ ६ ॥ चाममिति । अत्रार्थद्वयं तत्र प्रथमः स्रीणां वामभागे लक्षणं परीक्षणीयं 'पुरुषस्य दक्षिणभागे इति द्वितीयवस्तु एकस्यैव पुरुषस्य समुद्दिश्य स्वभावादिलक्षणं दक्षिणे भागे विलोक्यं स्त्रीणां स्वभावादिलक्षणं वामभागे तथा स्त्रीणां स्वलक्षणं वामभागे पुरुषस्य भर्तादेः स्त्रिया एव दक्षिणभागे परी - -क्षणीयमित्यर्थः । तेनैव विष्णोर्वांमाङ्गे लक्ष्म्यादिस्थानं सुरतार्थे पुरुषा दक्षिण'पादेन स्त्रीवामपादेन पर्यङ्कमारुहेत् इतिस्पष्टं वाग्भटे । अत एवास्मिन् श्लोके . पुंसस्त्वायुः पुरस्सरमिति कचित्पाठेद्विः पुरुषोपादानं संगतं किंविशिष्टं लक्षणं आयुः पूर्वकं पूर्वमायुरेव विचार्यमित्यर्थः । नचैवं नखचरणपाणिरसनादश नछद'तालुलोचनान्तेषु । स्याद्योरक्तः सप्तसु सप्ाङ्गांसलभते । लक्ष्मीरित्या - दिसूत्रेषु लेोचनान्तर किमपि पुंसो दक्षिणे स्त्रियावामे लोचने प्रसज्यत इति वाच्यं, द्वयोरक्ततायां विशेषात्, अन्यथा एकस्मिन्नपि तथाफललाभतः । पुंसो हस्तद्वयेऽपि काठिन्यं चेत्प्रशस्तमेव न चेद्दक्षिणेऽपि एवं स्त्रियापि ज्ञेयम् । यद्वा कोमल कठिनत्वमेव लक्षणं वाम इति विशेषोक्तिस्तु, अग्रे वक्ष्यमाणाधिकारेरेखादि लक्षण कटाक्षेणेति ॥ ६ ॥
अथ स्त्रीवतस्त्र्यंशपुरुषस्यापीति विशेषसंग्रहाय समत्यन्तरमाहउत्पातः पिटकोलक्ष्म तिलकं मशकोत्रणः ।
"Aho Shrutgyanam"