________________
( १५७ )
आयुरेखाभावे निष्प्रयोजनत्वाल्लक्षाणानां नचैवमन्यरखा वैथ्यर्थं छंदभेदादिसम्यग्विचारणयाता सामान्योन्यलक्षणत्वात् अतएवश्रीकालिकाचार्यगुरुणां भगवतां पूर्वमायुः पृष्टं शक्रेणतथा विक्रमार्कराजेनापिपूर्वमायुः प्रश्नछलेन वैतालः स्वसेवकीकृतेः ॥ ४ ॥
रेखाणां विमर्शनाय स्थानरूपाणि लक्षणमाह
मणिबन्धात् परः पाणिः सो कर्मकठिना नृणाम् । वामेति कोमलो वामश्रवां सम्पत्करः करः ॥ ५ ॥ मणीति । मणिरत्ररत्नं वद्धयते तेन मणिबन्धः करपल्लवतन्मूलं तस्मादग्रे पाणिरितिरूढिः सकर्मवृक्ष छेदादि तद्विनाकठिनः नृणां पुरुषाणां संपत्करः-संपत् घन–स्वजनवाहनादिलक्ष्मी स्वद्विधायकः वामश्रवां पृथग् ग्रहणांत नृशद्वीजातिवाचकोऽपि पुरुषशद्ववद्विशेषवाचकः वृक्षछेदादि कर्मणा मुष्टियुद्धाभ्यासादिना काठिन्यं त्वौपाधिकं न सहजं यत्तु सुकुमालपाणिपाय. इति सिद्धान्तोक्तिः सात्वचिसौकुमार्यपरानपुनरस्थिकोमलत्वपरा । पुंसां करे अस्थनां काठिन्यमेव युक्तम् । शस्त्रव्यवसायादिषु राज्ञां तदौचित्यात् वामध्रुवां स्त्रीणां भगवत्यागमोक्त पित्रत्रयस्पर्शेशैथिल्येन प्रकृत्या अस्थिकोमलत्वात्, कोमलकरः श्रेष्टः वाम इत्यत्र कथनात् पुंलक्षणे दक्षिण एवं वाच्यः, ननुशरीरावयवेषु मृदुकठिनत्वादि धर्मस्तूभय साधारण एव दृश्यते तदत्र किं. विशेष व्याख्येयति चन्न पुरुषस्य सरलप्रकृत्यायोगसायर्थ्येन च दक्षिणाङ्ग
www.
१ भवत्याद्यागमेऽपि नेरइयाणं केवइयं कालंवितीपण्णत्तेत्यादिना पूर्वमायु प्रश्नः । २ ननु एकस्मिन्नेवाने किं वामावामत्वं सर्वत्रजीवाश्रये साम्यादिति चेन्न; एकस्मादङ्कुरात् पत्रद्वयवत्, एकत्रापिकाले उत्सर्पिण्यवसर्पिणी द्वयवत् पुगलकृतभेदेन विशेषात् वामः प्रतिकूल: पुद्गलाधिक्येन संसारबर्द्धनाज्जीवत्याहितमेववामाङ्गं तत एव आहारस्यवामकुक्षिराश्रयः शयने तदङ्गस्याधः करणात् सुखं शकटादावपि वामाङ्ग एवभारोऽधिकस्तेनपार्श्वेऽनङ्गान् बली योज्यते । एकत्रापिदिने रात्रिर्वामाङ्ग स्त्रीरूपात्तत्र पुद्रलातिशयाद्देहे जडिमान् तथा दक्षिणाङ्गरूपे दिन इति, अत एवत्रामानवस्त्रा छादनभारवहनादिप्रयत्नाधिक्यं तदेवपुद्गलातिशयहेतुः । तमाउल अंगापणत्ता तेजही मंसेसोणिएमछुर्लिंगे तउपिति अंगा अठिमिजाकेसं मंसुरोमणहे इति भगपत्यां
"Aho Shrutgyanam"