________________
( १५६ )
हस्तं स्वदर्शयेद्धस्ते प्रशस्ते दिवसोदये ॥ २ ॥ प्रागुक्तेति । हस्ते हस्तनक्षत्रे मुख्यत्वादस्यग्रहः | उपलक्षणादन्यनक्षत्रेष्वपि पूर्वोक्तेषु यदा पुनर्हस्तनक्षत्रे सूर्यश्चरति तदा तावत्सु सर्वदिनेष्वपीति प्राञ्चः ॥ २ ॥
अत्रार्थे सम्मतिमाह
शोभने हस्तनक्षत्रे ग्रहे सौम्ये शुभेदिने । पूर्वी मङ्गलैर्युक्ते परीक्षेतविचक्षणः ॥ ३ ॥
शोभन इति । अर्कादिवारयुक्तेन पुनः शनियुक्तेयमघंटोत्पत्तेः । ग्रह इति ग्रहस्तत्र चन्द्रस्तस्यैव सर्वग्रहमुख्यत्वात् तस्माच्चन्द्र बलाद्वलमिति वाक्याच्च । न चैवहस्तनक्षत्रे सदातुर्याष्टमद्वादशचन्द्रयोगात्तत्ताद्वा शिवतोहस्त-दर्शनबाघः स्यादिति वाच्यं प्रागेवकृतोत्तरत्वात् सौम्ये शुभे घातादिदोषवर्जिते शुभ इति रेणुसंपातादि उत्पातवर्जिते अत एव शकुनदर्शनादिवत् पूर्वदिने गुरोर्निमन्त्रणा र्कायाममहस्त प्रातर्विलोक्यः इति गुरुरपि स्वेष्टस्मरणब्रह्मचार्या'दिक्रियासावधानः स्यात् । पूर्वाह्न इति एतद्वचनेन हस्तादिनक्षत्रायोगे प्रात
टीचतुष्टयमध्ये कदाचिदावश्यके कार्ये हस्तवीक्षणं युक्तं अयं चापवाद 'एव न चेन्मध्याह्नात् परतः स्त्रीणामित्यादि पूर्वोक्तमवे मङ्गलैर्युक्त इतिविवाहादिउत्सवसहि तो दिनेपुरुषोवा रूप्यनाणकतिलकादियुक्ते हस्तविलोक नार्थमागमेन शुभशकुनसद्भावे स्वयमपि शुभवाक् सुवेष इत्यादि विशिष्टेन पुनः केनापिकृत कलहे इति । गुरुरपि प्रसन्नचेतामाङ्गल्यभूषावेषादि युक्तके: परीक्षेत विचारयेत् कररेखादिसर्वमितिशेषः ॥ ३ ॥
I
रेखाविमर्शक्रममाह---
पूर्वमायुः परीक्षेत पश्चाल्लक्षण मुत्तमम् । क्षीणायुषां नृणां शेषैर्लक्षणैः किम्प्रयोजनम् ॥ ४ ॥
पूर्वमिति । प्रथमं आयुर्जीवित स्वभावः आयुरेखयाविच क्षणो विमृशेत् धनादिलक्षणं - उत्तम - अनुत्तम वा विचारयेत्
पश्चात् शेषं
१ सामुद्रिकभूषणे तया वचनात् ।
ततः
"Aho Shrutgyanam"