SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ (१५५) कलयन् केवलाश्रयेत्यादि शिष्टप्रयागेण प्रकाशातिशयव्यञ्जनान् ॥५४॥ दर्श दर्शमनेक वाङ्मयपथं स्पर्शाधिकारोदधि स्तीर्णस्तूर्णमघूर्णि बोधमाणिभिः पूर्ण कथञ्चिन्मया । हेतुस्तत्र सुसेतुरेव सुधियां सम्यक् प्रसादाह्वयः शास्त्रेऽस्मिन्नत एव सोन्नतिपदं भूयात्सुदृष्टिःसताम् ॥ १॥ इति श्री हस्तसञ्जीवनव्याख्यायां सामुद्रिकलहयों महोपाध्याय श्रीमेघविजय गणिविरचितायां द्वितीयः स्पर्शाधिकारः पूर्णः अहम् अथ रेखाविमर्शनाधिकारः समारभ्यते ॥ प्रथममथविमर्शः स्पर्शनादेवपाणेर्गदितावदितमन्त्रोच्चारपूर्व विधेयः । जिनदिनकरभासास्त्वं प्रकाशावलीढं हृदिनिहितवतोचैर्धामता लक्षणानाम् ॥ १ ॥ शास्त्रकाराहि-शास्त्रस्यादौ मध्यऽवसाने च मङ्गल माचरन्तीशिष्टाचारान्मध्यमङ्गलमाह---- स्वस्ति आभरणं सिद्धेः करणं श्रीजगद्गुरोः । हस्तं स्त्रमस्तकं न्यस्त स्मृत्वा रेखाविचार्यते ॥ स्वस्ति श्रीति । स्वस्तीत्यव्ययम्, मङ्गलार्थे-अव्ययानां बहुधा ग्रहणं शास्त्रसन्दर्भस्य, अव्ययरूपतापादनार्थम् । जगद्गुरुरत्र श्रीनाभिजन्मा जिनस्तस्यैव सकलकलाशिक्षागुरुत्वात् । हस्तमिति-हस्ताधिकारौचित्यात्, रेखा इत्यत्रजात्यैकवचनम् । विचार्यते इति विचारस्यपरीक्षारूपतत्वेन तत्त्वार्थोन्नाय-- कत्वात् तथैव रेखाणां लक्षणकत्वमिति ॥ १ ॥ परीक्षायां देशकालादेरप्युपयोगात् विधि स्मारयति । प्रागुक्तविधिनाभ्यर्च्य नरोजातिगुरोः पुरः "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy