________________
( १५४ )
मध्यान्हे पोतकी सायं पिङ्गला, रात्रौ शिवा इत्यादि ॥ ५१ ॥ अथ पुस्तक शकुनान्वीक्षणमप्याह
तारादिक्रमतचैकं द्विकत्रिकं चतुष्क्रम् |
त्रिवार स्पर्शनाद्बोच्या हस्ते पाशक केवली ॥ ५२ ॥ तारादीति । स्पष्टं । नन्दादि पूर्वोक्तमायास्वरूक्रमादेवमेकाद्यकन्यासः । पाशकस्य चतुष्कोणत्वेनमायाचतुष्टय मेवात्र प्रयोजकम् ॥ ५२ ॥ अथ हस्तस्पर्शे मन्त्रमाह
―
प्रणवः शुक्रराणीति दिने स्वाहेति मन्त्रतः ।
अभिमन्त्र महाब्रह्म स्पर्शनं ज्ञानसाधनम् ॥ ५३ ॥
"
प्रणव इति । अधिकार सम्पूर्णतायां मङ्गलार्थमेतत् अं नम इत्यादि न्यासं विधाय सर्वतो भद्रयन्त्रं हस्ते संस्थाप्य ॐ शुक्रपाणिदिने स्वाहा, इत्यनेन मन्त्रेण, अभिमन्त्रय महाब्रह्मणो हस्तम्य स्पर्शनं ज्ञानस्य सर्व पृच्छासु भूतभवद्भविष्यद्रूपस्य साधनं हेतुर्भवति ॥ ५३ ॥
अर्थनिगमनमाह
करस्पर्शात स्पर्शादिव परिणतां काञ्चनमहा रसमेंखन सिद्धि सुगुरुवचसो मेधविजयात् । विदित्वा पृच्छानां य इह कुरुते निर्णय महोमहोभिस्तस्य स्यादभुवनभवना वासनविधिः ॥ ५४ ॥
करेति । हस्तस्पर्शात् परिणतां - अभ्यस्तां काञ्चनअचिन्त्या महारसस्य ज्ञानास्वादस्य प्रेङ्खन्ती- दीप्यमानां सिद्धं प्राप्तिं मेघस्य विजयः सारस्येन यस्य तस्मात् सुगुरोर्वचनात् विदित्वा ज्ञात्वा यः पृच्छानां निर्णयं कुरुते किं विशिष्टः यः मेघविजयं ग्रन्थकारकमतति सततं गच्छति सेवत इति मेघविजयात् तस्य तेजोभिर्जंग गल्लक्षणं मन्दिरं तत्र प्रकाशक्रिया भवति परिणतां व्याप्त कस्मादिव स्पर्शात् पाषाणविशेषात् काञ्चनस्य - स्वर्णस्य महारसेन तादृशीं सिद्धमिति छायार्थः ।
अत्र जगतो मन्दिरोपमायां न हीनत्वदोषः
शङ्क्यः; करामलकवद्विश्वं
" Aho Shrutgyanam"