________________
( १४६ )
वा गुरोर्नक्षत्रे प्राप्ते स्मृतं कथितं पुराणेः । अनेन शुभाशुभलक्षणस्यापि तत्तद्महभावनया तत्तदवयवेषु व्यक्तिर्मन्तव्या भौमादिसाहचर्यादत्रैतदभाव कथनं न पुनस्पर्शात्तस्याऽप्रयोजनात्, न चैवं लक्षणस्यापि लक्षणेऽनवस्था निमित्तानिमित्तान्तरस्य प्रत्ययात् शुभाशुभज्ञप्तिमात्रेण विश्रामात् ॥ ४१ ॥ उत्पात ज्ञानमाह
यत्र राहु समाक्रान्तं देशभं तत्र सम्भवेत् । उत्पातो विग्रहोघोरा श्रक्रमस्य तु भौमवत् ॥ ४२ ॥ यत्रेति । गुरुभुज्यमाननक्षत्रस्य तलेन्यासादिना यद्देशनक्षत्रंदेशपति नक्षत्रं वा राहुणा, आक्रान्तं तत्रोत्पातः राजयुद्धादिः ॥ ४२ ॥
मतान्तरं पुनराह -
यद्वा कनीनिकापूर्वं त्र्यंशाद्वत्सरसंस्थितौ ।
यत्र वर्षं वर्तमानं तत् स्थानेन विश्वार्यते ॥ ४३ ॥
यद्वेति । वामहस्तकनिष्ठा मूलपर्वणः समारभ्यः प्रभवादीनां पूर्वोक्तरीत्या गणनया यत्र वर्तमानं वर्षं समायाति, तत् स्थानं राहुणा शनिनान्येन वा क्रूरेण राशिस्थानरूपेण विद्धं तदा तत्र देश उत्पातः स्पर्शान्मासादि ज्ञानं व्यक्तमेव ॥ ४३ ॥
अष्टम निमित्तमाह
वर्षमासायनतिथि लघिष्ट्रय विमर्शनम् । ग्रहाद्ये पूर्वमेवोक्तमन्तरिक्षं निरीक्ष्यते ॥ ४४ ॥
वर्षेति । अत्र आन्तरिक्ष गन्धर्वनगरादि तस्मिन् जातेकत्वज्ञानं भौमचक्रवत् गुरुभुज्यमान नक्षत्रस्य तले दानात्, 'यहिने गन्धर्वनगर वारापातभूकम्पचन्द्रसूर्यपरिधिप्रमुखं जातं तद्दिन नक्षत्रं चेत् सर्वतोभद्र त्रैलोक्य दीपिके क्रूरमहविद्धं तदा तन्नामदेश ग्रामवस्तु राजपीडादितत्तन्नक्षत्रादि शिविग्रहा नक्षत्र चक्रेण लभ्यते यत्पुनर्वपादिज्ञानं तद्दर्शनाधिकारे पुरुषाप पेक्षया प्रागेवोक्तं लोकापेक्षया स्पर्शेणोक्तमिति न पुनरुच्यते ॥ ४४ ॥
"Aho Shrutgyanam"