________________
( १४५ )
अनन्तेति । तिलको यत्र यंत्र स्यात्तदङ्गे पुष्टिकारणम् ।
मसस्ततः शतगुणः सहस्रगुण लाञ्छनम् ॥१॥ इति प्राचां वचनात् तिलकादिस्थानं निर्णेतव्यम् । तदर्धे - अनन्तवीर्थो हस्तः स एव ऊर्ध्वकृतः पुरुषस्तस्य शिरोमुखं तथा कण्ठ इत्यादिना प्रागुक्ताअवयवास्तेषु यत्र रेखा स्पष्टतया छिन्ना तस्मितन्नवयवे छेदः भेदे तत्र घातः वेधे तस्मिन् रोग: रेखातनुत्वेतदवयवे दोषः शुभरेखाया एवफलमिदं, अशुभरे कायाच्छेदादौ विपर्ययः ||३९||
तदेवाह ---
यत्रोर्ध्वरेखा तत्रस्याच्छुभं चान्यत्र नो शुभम् । यद्वा राहोः शनैर्वाममश्विन्यादिभचक्र के ॥४०॥ यत्रोर्द्ध्वरेखेति । स्पष्टुं यत्र रेखादिना न व्यक्तिस्तत्र-अश्विन्यादिभचक्रं विनस्य यत्र राहोर्नक्षत्रं तत्र घातः, यत्र शनैर्नक्षत्रं तत्र तिलकः, यत्र शनिदृष्टश्चन्द्रस्तत्रमशकः चन्द्रस्वगृहस्थो यत्र तत्र लाञ्छनं कुजगृहस्थे चन्द्रे तत्रावयवे दाहः सूर्यग्रहस्थे चन्द्रे तदवयत्रेव कुष्ठः बुधग्रहे मशकः, गुरुग्रहे चन्द्रतिलकः, शुभग्रहे — स्फोटः, शनिग्रहे चन्द्रधातः इत्यादि ज्योतिः शास्त्रोक्तोऽनिष्ट विचारो वेद्यः । केचित्पुनराहुः कण्ठादू ललाटं यावतिलके दृश्यमाने प्रदेशेऽपि तिलको निश्चयाज् ज्ञेयः । अत एव व्यञ्जनस्यापि लक्षणत्वात् लक्षणसाहचर्येणोकः ॥३०॥
पुनर्मतान्तरेण विचारमाह-
तारादिद्वादशांशेषु यत्र तत्राशुभं दिशेत् । प्रागुक्तावयवापक्षं शुभं तु गुरुभे स्मृतम् ॥४१॥
तारादीति । कनिष्ठामूलपर्वणः समारभ्य द्वादशत्रिभागेषु द्वादशावयवा - पेक्षया, अश्विन्यादि चन्द्रचक्रे राहोः शनैर्वा, उपलक्षणात् मङ्गलसूर्यकेतूनां नक्षत्रं पतति, तदवयत्रे अशुभं ज्ञेयम् । शुभं लांछनचक्रादिलक्षणं नीरोगत्वं
१ बाहौ भ्रातृसहाय्यं पृष्ठे पुत्रप्राप्तिः गुये स्त्रीभोगः पादयोर्वाहनलाभ, इत्यादि स्थानफलम् |
"Aho Shrutgyanam"