________________
( १४४ )
धवला देवै सदारं जिता नोवारो न तिथिर्नचापि करणं चन्द्रो न चापीष्यते हित्वादोषसहस्रकं कुदिवसेऽप्यूषा करोत्युन्नतिम् ||१|| इति वचनात् प्रशस्तं वणिजः सर्वदेश वस्तुव्यापारेण सार्वत्रिक गमागमयोरवश्यं भावेन सर्वदेशस्थ दुःस्थ तादि ज्ञानस्या न्येषकत्वादुपादानं कर्शुकादीनां स्वदेश विज्ञाने नै वेच्छा विश्रामात् ॥ ३५ ॥
तत्र विवेकोपायमाह---
गुरुणा भूज्यमानं यन्नक्षत्रं दीयते तले ।
तत्रायाति च यद्देशनक्षत्रं तद्विचार्यते ॥ ३६ ॥
गुरुणेति । गुरुचारेणैव वर्ष शुभाशुभोदयः प्रभवादीनां तच्चार प्रभवत्वात् गुरुण भुज्यमानं यन्नक्षत्रं तत्तलेदेत्वा तत्तस्थानविमर्शः कार्यः । सर्व देशानां प्रागुक्तरीत्या हस्ते व्यवस्थानात् स्पर्शप्रयोजनं मासादि ज्ञानमेव ॥ ३६ ॥
तत्र दोष स्थानमाह
मङ्गलेन तदाक्रान्त दृष्टं वात्रिपुरान्तरम् ।
ताशे भूमिकम्पो वा मारिर्वाराजविग्रहम् ॥ ३७ ॥
मङ्गलेनेति ॥ ३७ ॥
शनिना यत्समाक्रान्तं दृष्टं दक्षिणदिग्गतम् ।
तत्र देशे भयं रोगो दुर्भिक्षं राजविग्रहः || ३८ ॥
शनिनेति कूर्मचक्रादौ शनिस्थानादेव देशानां स्वरूप निर्णयात् ॥३८॥ अथ व्यञ्जनस्यापि अङ्गविधैक देशस्य परेभ्यो लक्षणेभ्यो द्विगुणत्रिगुणशतगुणफलदायित्वात् स्वातन्त्र्येण तत् परिज्ञानं लक्षणशास्त्र सद्यः प्रत्यय हेतुं निरूपयति ।
अनन्तवीर्यस्य पुंसो यवाः प्राग्विनिर्वेदिताः ।
तद्रेखायाः प्रमाणेन ज्ञेयं व्यञ्जनलक्षणम् ॥ ३९ ॥
"Aho Shrutgyanam"