________________
( १४३ )
स्वराधिकारान्नासिका स्वरमप्याह
या तिथिर्यत्र भागेऽस्ति तमारभ्य ततोबुधः । दर्शनात्स्पर्शनाद्वापि गणयेद्गणको त्तमः ॥ ३१ ॥ या तिथिरिति ॥ ३१ ॥
सूर्योदयघटीयुग्मस्थापनानुक्रमात् पुनः । रविः शशी च सूर्येन्दुपरि पाटी सितेतरे ।। ३२ ॥ सूर्योदय इति ॥ ३२ ॥
सितपक्षे शशिखी क्रमोऽयं तिथिसङ्गतः ।
कार्यस्ततो यदा हस्तदृष्टेः स्याद्धटीका द्वये ॥ ३३ ॥ सितपक्षेति ॥ ३३ ॥
तस्य स्वरस्याभ्युदयो वाच्यः स्पर्शन कर्मणि ।
भागोयः प्राप्यते तस्य स्वरस्योदयमादिशेत् ॥ ३४ ॥ “तस्येति ॥ ३४ ॥
भाष्यं च सर्वं स्पष्टमेव विनृत्य कथनात् स्पर्शने दर्शन साहचर्यात् । अथ क्रमप्राप्तं भौममाह -
आद्य प्रभोर्भगवतः पारणाहे दिनोदये ।
यस्य कस्यापि संस्पर्थः पाणिर्वा भाग्यशालिनः ॥ ३५ ॥ आद्य इति । भौमे भूमिभागघन सुषिरस्निग्धऋक्षादि ज्ञानं वास्तुशास्त्र 'ज्ञानं च शास्त्रान्तराद्वेद्यम् । भूकम्पादि ज्ञानाय - आद्यः अर्हतां प्रथमः ऋषभप्रभुस्तस्य पारणाहम् । अक्षय तृतीया पर्वठोक प्रसिद्धं तस्मिन् प्रातःकाले पूर्वोक्त पूजादि विधिना अभ्यर्च्य वाणिज्यकर्तुः पाणिर्देश शुभाशुभ ज्ञानार्थं स्पर्शनीयः अत्राक्षयस्तृतीया ग्रहणं वैशाखे मेष संक्रान्ति सम्भवन सूर्यस्याश्विन्यादि नक्षत्रचक्रे प्रवेशात् अब्दस्य तत एवं प्रारम्भः लोकोऽपि तस्मिन्नेव दिने शकुनादिना वर्षस्वरूपं निर्णयति तत्रापि प्रभातं; 'प्रश्रष्टद्युतितारकास्फुटतटीमाची भवेन्निर्मला किञ्चिद्रक्त विलोहितान्त
१ मेष संक्रान्तरेशद्वयव्यतिक्रमेषु शुद्धि अब्दप्रवेशात् ।
" Aho Shrutgyanam"