________________
(१४७) अथ सर्व निमित्तान्युक्त्वा स्वरविशेष'चूडामाणशास्त्रं शकुनशास्त्रं चेति तदुभयमाह--
विज्ञेया अ इ उ ए ॐ स्वराङ्गष्ठतः क्रमात् । ..
अङ्गष्ठो उत्तरो लध्वी अधरा नामतों मता ॥४५॥ विज्ञेया इति । अ इ उ ए ओ एते पञ्चापि स्वराः स्वर शास्त्रमूलं चूडामणि शास्त्रस्य जीवितं सर्वव्यापकतया बोध्याः ।। यत उक्तं
स्वरादि मातृकोच्चारो मातृव्याप्तं जगत् त्रयम् ।
तस्मात् स्वरोद्भवं सर्वं त्रैलोक्यं स चराचरम् ॥ १ ॥ इति । तत्राङ्गुष्ठ अ,स्वरः, नरपतिग्रन्थे अ स्वरः कृष्णपक्षेशइत्युक्ते दक्षिणकरे तदौचित्यात् , इ, स्वरस्तर्जन्यां, आश्विनमासस्थानात्, समागुल्यामाद्यत्वात्, उ, स्वरोमध्यायां ग्रहस्वर चके धनुः प्रमुगुरोरवस्थानात्, ए, स्वरो गौयाँ शिवस्थानात् , शुक्राधिष्टानान्च, मोकारकानष्ठायां दिनलग्ने मृगकुम्भयोरवस्थानात् , शनिस्वामिकत्वाच्च । वामहस्ते चैतद्विपर्ययः । अस्वरः काञ्चन्यां नन्दास्थानात् , राशिचक्रेमेषस्थानाच्च, इ, स्वरसावित्र्यां राशिचक्रे कन्याकर्कऽयोः स्थानात्, उस्वरो मध्यायां, चैत्रस्थानात् जयातिथि सद्भावाच्च एस्वरस्वर्जन्यां रिक्ताख्यानात् , ओ स्वराङ्गुष्ठे पूर्णातिथिसंज्ञत्वात् परब्रह्मरुपत्वाच्च, अत्र अकारादिस्वराणां अधिवादिज्ञानाय यन्त्र स्थापना । ___अथ स्वरान् व्यवस्थाप्य चूडामणिशालस्यावकाश दानाय तदुक्ताः संज्ञा'निवेशयान्नाह- अङ्गुष्ठ उत्तर संज्ञः उत्तराक्षेरघु- आ । इ । ए । ओ। क । ग । च । ज । ट। ड । त । द । प। ब । य । ल । श । स एतेषु पुसज्ञेषु दिनात्मकेषु पृच्छायां जिवात्मकेषु रविणाधिष्टितेषु । शीघ्ररूपेषु। द्विजवर्णेषु । बालावस्थितेषु रक्तश्वेतपीतवर्णेषु वर्तुलाकारेषु पश्चिमदिग् लक्षणेषु
१ ए स्वरे ग्रहस्वरचके शुक्रोऽधिरः । वायुगता इच्छापि तेनगौर्या वायुतत्त्वव्यवस्था ।
"Aho Shrutgyanam"