________________
( १३७ )
तथैव द्वादशमासपेक्ष शुभाशुभज्ञानं कार्यं दैवात्कन्याया अप्राप्तौ नैमित्तिकः स्त्रकरे प्रष्टुर्वाकरे स्पर्शफलन्यासादिना शुभाशुभं वदेत्, तत्रापि शुभमशुभं वा कस्यां दिशिकुतो वा लोकात् कस्याद्दुव्यात्तदा सर्वतोभद्रचक्रे फलन्यासाहिग् विमर्शो नक्षत्रानुसारात् बाह्मणादिलों को बालादिर्वाङ्गुली स्वरूपात् द्रव्यं राशिस्वरूपाद्वाच्यम् । दिनवयोज्ञीने सर्वलोकार्थं स्पृष्टांशेऽक्षय तृतीयां व्यवस्थाप्य प्राग् उक्तः, दिनदर्शनवत् घटीदर्शनवद्वा सर्वं जानीयात् स्पृष्ठे भागे ग्रहास्तथा मेषादिलमं तयोरपि भावनात् ॥ १७ ॥ अथ मुष्टिज्ञानं शास्त्रप्रत्ययार्थमाहस्पृष्टपर्वरूपेण तथा लग्नविचिन्तनात् ।
ग्रहस्वरुपमालोक्य मुष्टिज्ञानं निवेद्यते ॥ १८ ॥
स्पृष्टेति । यस्तृतीतत्र्यंशः स्पृष्टस्वस्य स्वरूपं समविषम धातुमूल जीव तद्राशि नक्षत्र ग्रहस्थिति लक्षणं तथा स्पृष्टमाग स्थानादङ्गुष्ठः पञ्चवर्णः स्यादित्यादिमाया स्वरूपं तथा प्रागुक्तरीत्या दिनक्रमं तत्र ग्रहस्वरूपं निरीक्ष्य मुष्टिज्ञानं निवेद्यत इत्यर्थः ॥ १८ ॥
अथ गतवस्तु ज्ञानमाद
नष्टं मे
गतं वस्तुः इति ज्ञेये करं स्पृशेत् । नष्टस्य दिनभं गर्भे दत्वा यद्दिशि वस्तुभम् ॥ १९ ॥ नष्टमिति । अत्र स्पृशेत् । इति स्वशक्तिरधिकारात् तेन परामृशेत् विचारयेत् कथमित्याह-यदा नष्टं वस्नुज्ञायते तदादिनमं गर्भे देयं तदनुक्रमेण यस्यां दिशिवस्तु नामनक्षत्रं तस्यां दिशि गतमिति भावः । यद्वा करमिति । करम्यमाया पञ्चकं स्पृश्यं तत् स्पर्शाल्लाभालाभादि प्रागुक्तः सामन्यबोधः गतवस्तुनो दिग् बोधाय नक्षत्रचक्रं विचार्यं नचेन्नक्षत्र चक्रादेव लाभालाभज्ञाने अस्याः पृच्छायाः स्पर्शाधिकारऽनवसर एवेति ॥ १९ ॥
विशेषाल्लाभालाभज्ञानमह
वस्तुभं दक्षिणभागे प्रतीच्यां त्रिपुराग्रगम् । वदा न लभ्यते वस्तु मेरोप्राच्यांतु लभ्यते ॥ २० ॥ चस्तुभमिति । वस्तुनामनक्षत्रं दक्षिणस्यां तथा पश्चिमायां तथाङ्गुल्या
" Aho Shrutgyanam"