________________
( १३६ )
: हस्तेति । यदा हस्तः पृच्छायां स्पृश्यते तदा प्रागुक्तमासचक्रापेक्षया दैवयोगाद्भवितव्यता वशात्, आषाढः प्राप्यते तदा तद्वर्षे अतिवृष्टिः स्यात्, एवं श्रावणेऽपि ज्येष्टे न वृष्टिः अन्यथा, अन्येषु अश्विनादिषु मध्यमासृष्टिः भाद्रपदे प्राप्ते कृष्णपक्षे हस्तस्पर्शेमध्यमावृष्टिः शुक्ले तु अतिवृष्टिरिति ॥ १६ ॥
अथमासादि ज्ञानमप्याह
·
एवं मासं तथा पक्षं दिनं वेलाफलं तथा
भागस्पर्शेन विज्ञेयं ग्रहलयविचारणात् ।। १७ ॥
एवमिति । कोमासो ठोके धान्यादिमहर्घसमर्थतयास्वचक्रपरचक्रमयसुराज्यसुभिक्षतया सुस्थो दुःस्थो वा भावीति ज्ञातव्ये कुमारी पूजादि प्राग्वत् विधाय हस्तस्पर्शः कार्यों हस्तके फलन्यासो वा अत्राञ्जलिस्पर्शेन प्रागुक्ताय नद्वयापेक्षया तत्तदगुल्यां तळे वा मासनिर्णयः यथा ग्रन्थोदाहरणे दक्षिणहस्तेऽनामिका तृतीयभागस्पर्शे जातेऽनामिकायां मार्गशीर्षो मासः प्राप्तस्तत्र कुमार्याः शुभलक्षणे टोके मासः शुभोऽन्यथाशुभः एवं हस्तद्वयेन द्वादशमास शुभाशुभज्ञानं यद्वा कनिष्ठाद्य त्रिभागान्माधादि क्रमेणानामिका तृतीय व्यंशे आषाढ: प्राप्तस्तस्य कृष्णपक्षे पृच्छायां स एव पक्ष आदिः शुक्ले शुक्लादित्वमतस्तत्रोर्द्धरेखादिशुभलक्षणे शुभत्वमन्यथान्यत्वमिति ममास्मिन् वर्षे मासः कः कीदृग् इति पृच्छायां स्पृष्टांशाज्जन्ममासमारभ्य गणनाया तत्तल्लक्षणे शुभाशुभत्वं जन्ममासाज्ञाने स्वनामराशिसंक्रान्तिमासमेव स्पृष्टांशे व्यवस्थाप्य द्वादशमास गण्यन्ते वस्तूनो मूल्यविचारे स्पृष्टांशे तत्तवस्तुनामराशि व्यवस्याप्य मासा गण्या यत्रो द्वरेखादि लक्षणं तत्र महता यत्रतुविरुद्ध लक्षणं तत्र समर्थता एवं स्थानग्रहयोगाद्यपि भावनीयं ग्रामस्य स्पृष्टांशी ग्रामराश्यादिर्गणना | अन्यस्य वर्षमध्ये मासज्ञानार्थं तद्राशिमेव स्पृष्टांशे व्यवस्थाप्य गणनीयमिति पक्षज्ञाने लोकेकः पक्षोमासमध्येऽपि शुभोऽन्यथा वा इतिज्ञेये स्पृष्टांशे विषमे तस्मिन् वैशास्त्रकृष्णपक्षं समारभ्यमायाद्वादशांशेषु षण्मासानू गणयेत् स्पृष्टांशे समे शुक्ल पक्षं वैशाखस्य व्यवस्थाप्य
" Aho Shrutgyanam"