________________
(१३५)
विमर्शनात्, सूर्यस्योदये प्रातरेव शकुन वीमणावसरे यनक्षत्रं तद्भूतले हस्तमध्ये दत्वा विलोक्य, अस्मादिवचनात् क्वचिदावश्यके सूर्योदये करवीक्षा प्रागुक्ता । अग्रे देशग्रामपतिगृहपत्यादीनां वर्षजन्यशुभाशुभ ज्ञाने तत्तन्नक्षत्र न्यासविधिनरपतिग्रन्थे कूर्मचक्रे तथा दर्शनायुक्तः । यदुक्तं
पृथ्वी कूर्मः समाख्यातः कृत्तिकादिर्यमान्तकः । देशादिस्वस्वऋक्षादि वक्ष्ये कूर्म चतुष्टयम् ॥ १॥ पूर्ववश्चाक्रमालिख्य देशनामर्श पूर्वकम् । देशकूर्मे भवेत्तत्र यत्रसौरिः क्षयस्ततः ॥ २ ॥ नागरे नागरं धिष्ण्यं कृत्वादौ विलिखत्ततः ।
क्षेत्र क्षेत्र भान्यादौ कूर्याकूम यथास्थितम् ॥ ३ ॥ तेन देशभं भूतले दत्वाइत्यादि भाष्य
सिद्धं गृहपतेरित्यत्र यदि ध्रुवं धान्य जयं नन्दं स्वरम् । कान्तं मनोरमं सुमुखं दुर्मुखं क्रूरं विपक्षं धनदं क्षयम् ॥ १ ॥ आक्रन्दं विपुलाख्यं तत् षोडशं विजयाभिधम् ।
इत्येक शालि गेहानि विद्या प्रस्तारतः सदा ॥२॥ तैः आक्रान्तं भूज्यमानं दुष्टा आयतादिरूपारेखा यस्मिन् , इति यन्नक्षत्रस्थाने तथा यन्नक्षत्रं दुष्ट ग्रहणे शन्यादिना दृष्टं वर्षेशत्वात् तदपि वर्षेशा राहुकेत्वार्क जीवा इति वचनात् , अत्र दुष्टरेखमित्युपलक्षणात् नक्षत्रचक्रे अगुल्यप्रगतादिकमपि ग्राह्यं तद्विमर्शाय तथा देशग्राम ग्रहादीनां सम्वत्सरेण तत्तन्ना मभिर्वर्णोवश्यं तथा तारा योनिश्च ग्रहसख्यतागणोभमेलको नाडी शुद्धिश्च बलिनोऽष्टवै ॥ १ ॥ इति वचनात् राशिमेलक विमर्शयेत् ॥ १५ ॥ अथ वर्षे वृष्टिज्ञानमाहहस्तस्पर्श क्षणे दैवादाषाढः श्रावणोऽपि वा। तदातिष्र्जेिष्ठादौ न वृष्टिमध्यमान्यथा ॥ १६ ॥
"Aho Shrutgyanam"