________________
वर्षव्यवस्थामाह
प्रभवाद्याः समाः सर्वाः काञ्चन्यायत्रिभागतः ।
सम्वत्सरं वर्तमान व्यवस्थाप्य विलोकयेत् ॥ १२ ॥ प्रभवाद्या इति । 'वामे माधः कनिष्ठायामिति ' वचनात् वामहस्तकनिष्ठाद्य त्रिभागे प्रभवः संवत्सरस्वत एव क्रमः सर्वः ॥ १२ ॥ एवं करणे फलमाह--
स्पृष्टे विंशोपके वर्षप्राप्तं तस्य शुभाशुभम् । __ वाच्यं नक्षत्र चक्रानुक्रमतो दिग् विचार्यते ॥ १३ ॥
स्पृष्टे इति । विंशोपके, ज्ञातेऽपि वर्षशुभाशुभे दिग् ज्ञानं यस्यां दिशि वर्षमिदं शुभाशुभं वा भावीति तन्नक्षत्र चक्राद्वेधम् ॥ १३ ॥ यदि कदाचित्तथा कुमार्याहस्तस्पर्श योगस्तदा ज्ञानकारणमाह
यद्वा ताम्रमये पात्रे कौंकुमस्थासकं द्वयम् । कुमार्याकारयेत्तत्र फलन्यासाच्छुभाशुभम् ॥ १४ ॥ क्रूराक्रान्तं दुष्टरेखं यद दुष्टग्रहे क्षितम् ।
सम्वत्सरेण राश्यादि मेलकञ्च विचार्येत् ॥ १५ ॥ यद्वेति । स्थासको हस्तबिम्बन्यासो यो विवाहादिमाङ्गल्ये भित्त्यादौ स्थाप्यस्तस्य युगलं कुमार्याः पार्थात् कार्य तत्र फलन्यासेन शुभाशुभव्यक्तिः ॥ १४ ॥
भाष्ये
पुनर्यदि साक्षात्कुमारी हस्तत्र्यंशः स्पृश्यते तदा रेखा विमर्शन चेदगुलिस्वरूपमेव विमृश्यम् । एवं साप्रतं पञ्च वर्षाणि कीदृशानि भविष्यन्तीति पृच्छायां वर्षज्ञानवत् कुमारी करपूजादि पूर्व तारादिद्वादश भागा एव स्पृशा यद्वा ताम्रपात्रे तथैव हस्तकन्यासे फलस्थापनात् दृश्या इत्यर्थः, उदाहरणेअनामिका तृतीय व्यंशे एकविंशतितमः सम्वत्सरः सर्व जिन्नामा वामे प्रभवादि पञ्चदशर्वष पूर्णात्प्राप्तः सचानामिकाङ्गुली स्थानात्, किञ्चिदशुभेपि, इत्यादि भाष्यम् । विवृत्त्यकथनात् स्पष्टमेव । सूर्योदय इति हस्ते
"Aho Shrutgyanam"