________________
गुणपञ्चइ गोणतिरि आणं संखादि चिण्ह भवो ॥ १ ॥ अस्यार्थः, भवप्रत्ययिकोऽवधिदेव नारकाणां चरमभवं तीर्थकराणां च भवति । गुणप्रत्ययोऽवधिर्मनुष्याणांतिरश्वाञ्च भवति, नभोरुपरिशंखपद्मवज्रादि शुभचिन्ह लक्षितात्मप्रदेशस्थः । सर्वांगोत्थः सर्वात्मप्रदेशस्थावधि ज्ञानावरण वीर्यान्तराय कर्मद्वय क्षयोपशमोत्थ इत्यर्थः । द्वादशाविकारे । तेन साप्रतं शंखादि चिह्नावधि ज्ञानादिफलं न वाच्यम् । किन्तु राज्यादिकमेवः एवं धनविद्याभाग्यादि सकलं फलं; तत्तदेखा विशेषैः समयानुगत मन्तव्यम् । अत कृष्णपक्षे पृच्छायां दिननिर्णयार्थे दक्षिण हस्त एव स्पर्शः कार्यः । तत्र तिथ्यपेक्षदिन घटीमानं विमर्शनीय तत्रापि उत्कृष्टदिनसमये प्रागुक्त रीत्या निर्णयः शुक्लपक्षो वामहस्त एवं स्पर्शस्तस्यैव प्राधान्यात्, तत्र अङ्गुष्ठा दाविति मतं बोध्यम् । एवं दक्षिणोत्तरायणादि समयमपेक्ष्य घटीनिर्णयः ज्योतिः शास्त्रे दिनमानध्रुवाकभेदवदस्यापि भेदप्रतिपत्तेः । एवं च यदा यादृशं दिनमानं तदा तादृग् ध्रुवाङ्क गणनीया शीघ्र घटीमान ज्ञान, अन्यथा पुन,नाधिकविचारणैवेति सर्वं सुस्थम् ॥ ९ ॥ अथ वर्षज्ञानमाह
लोके किगिदं वर्ष सुभिक्षं वा तदन्यथा ।
भविष्यतीति ज्ञातव्ये कुमारी परिपूजयेत ॥१०॥ लोक इति । प्रभवादीनां वर्षाणां नरपतिजयचर्यायां सांवत्सर चके सव्यमार्गेण न्यासदत्रापि सव्यमार्गप्रधान वामहस्तेन स्त्रीप्राधान्यात् कुमारीपूजनम् ॥ १० ॥ तद्विधानमाह--
संभोज्य मधुरास्वादैः कुङ्कुमैश्चन्दनैः करौ ।
विलिप्य पुष्पैः सम्पूर्य स्पृश्य स्वयंशास्तदङ्गुले ॥११॥ . संभोज्येति ॥ स्पष्टम् ॥ ११ ॥
"Aho Shrutgyanam"