________________
अङ्गुष्ठोऽपि च तन्मूलं पक्षी सर्पस्नुदग्रतः ॥ ५ ॥ स्पर्शे मध्यानामिका च ब्राह्मणी क्षत्रियादिमा । अङ्गुष्ठमध्यं मूलं च शूद्रोम्लेच्छा कनिष्ठिका ॥ ६ ॥ अङ्गुष्ठाग्रं वैश्यजाति श्चौर्येजाति विनिश्चये। भौमादि चक्रे तज्जाते शुभाशुभफलोदयः ॥ ७ ॥ अगृष्ठे वर्तुलं मूलं मध्येस्याच्चतुरसता । अयं स्थूलं कनिष्ठाया दीर्घ मध्यं नखाश्रयः ॥ ८ ॥ अमृष्ठमध्यं गौरस्या- नीलं मूलं तदप्रतः । मन्दार्कस्य पुप्येण समाकान्तिरुदीयते ॥ ९ ॥ तपस्वी १ नृपति २ विप्रो नखमध्याद्यपर्वसु । तर्जन्यगृष्ठको स्वर्ण कारीमध्यावणिग् मता ॥ १० ॥ वैश्या सावित्री कनिष्ठा दासरूपामलीमसा । मूले विचित्र जातीया स्पर्श धारे विचार्यते ।। ११ ॥ रुप्यं च मौक्तिक स्वर्ण नखाद्यगृष्ठके त्रयम् । मध्यारत्नयुतं स्वर्ण प्रदेशिन्यां पुध्रुवम् ॥ १२ ॥ कनिष्टाग्रं लोहमयं मूले श्यामाऽस्थिानिमध्यके ।। धातौ प्राप्तेऽपि पृच्छायां स्पर्शान्निश्चियते बुधैः ॥ १३ ॥ देवतावसतिर्मध्याऽङ्गुष्ठाग्रेचजलाश्रयः । मध्ये चतुष्पदस्थानमिष्टिकाङ्गष्टमूलके ॥ १४ ॥ दग्धस्थानं प्रदेशिन्यां कनिष्ठायां तु बाह्यभूः । नक्षत्र चक्रे नष्टस्य स्थानमेवं विचार्यते १५ ॥ अङ्गुष्ठमध्यं मध्या वा तर्जनीपुरुषस्थलम् । अङ्गुष्ठाग्रं च तन्मूलं स्त्रीसावित्री कनिष्ठिका ॥ १६ ॥ अग्रं विमध्यमं मध्यं वृद्धमगष्ठके स्मृतम् । बालस्वरूपं तन्मूलं यौवनं तर्जनीमुखम् ॥ १७ ॥ १ कनिष्टापि।
"Aho Shrutgyanam"