________________
( १२३ )
भुवामण्डलस्य चतुरस्राकारत्वात् च । चतुरस्रेणवज्रांक क्षितित्वेन प्रतिष्टितमिति तथा एवं भूमण्डले ध्यायेत् सद्वत्रैश्चतुरस्त्रिते इति चिन्तामण्यादि मन्त्र स्तोत्रे प्रतीतमिदम् । मध्या अति दीर्घा नक्षत्र चक्रेऽश्विन्यादि के पूर्वाषाढायाशय्या समाना काराया मध्या मूलपर्वण्यवस्थानात्, तदधस्तलोदृग् भागनक्षत्रमपि पर्य्यङ्करूपं तादृशमेव । शिवा न्हस्वा नक्षत्र चक्रे शिवायपर्वणि मूलनक्षत्रस्य क्रुध्यत्केसरिर्विक्रमतुल्यस्य सद्भावेन गात्रसंकोच लक्षणम्य स्व स्य प्रतीयमानत्वात् कर्क कन्ययोस्तथा शुक्रेन्दोः स्त्रीग्रहरूपत्वेन पुंसा पेक्षया: -हस्वत्वस्यौचित्यात् यदुक्तं वाग्भटे शारीरे -' पूर्णा षोडश वर्षा स्त्री पूर्णविंशेणसंयुता शुद्धे गर्भाशये मार्गे रक्ते शुक्रे नीलेहृदि ॥ १ ॥ वीर्यवन्तं सुतं सूते तयोर्न्यनाद्वयोः पुनः रोग्यल्पायुरधन्योवा गर्भो भवति नैव वा ॥ २ ॥ सिद्धान्तेऽपि मरुदेव्याः न सपादपञ्चशत धनुर्देहमाने मोक्षगतिस्तेन पुरुषा न्यूनदेह सम्भावनया सासुलभेति प्राचां ग्रन्थेऽभिहितं तथा प्रज्ञापना वृत्तौ :. चान्तर द्वीपे स्त्रियः पुरुषेभ्यः किञ्चिद्नोछ्राया इति । उनद्वादशवर्षायाः आ प्राप्तः पञ्चविंशतिं यद्यात्ते पुमान् गर्भः कुक्षिस्थः सविपद्यते ॥ १ ॥ इति-सुश्रुते शारीरे | अत्रान्यदपि अङ्गुलीनां स्वरूपं सामुद्रिक भूषणकारः प्राहतत्तत्सूत्रेणैवोच्यते तद्यथा
- T
पित्तमङ्कष्टतर्जन्यौ समधातुश्च मध्यमा ।
लेप्मरूपाच सावित्री कनिष्ठा वर्तुला स्मृता ॥ १ ॥ कनिष्ठाङ्गुष्ठतर्जन्यधातुरूपा प्रकीर्तिताः । अङ्गुष्ठमध्यं सावित्री मूलरूपं निवेदितम् ॥ २ ॥ मध्याङ्गुष्ठस्य मूलं च जीवरूपं स्वभावतः । पर्वणामङ्गुलीनां च ज्ञेयं तत्त्वबलाबलम् || ३ ॥ स्पर्शेऽङ्गुष्ठप्रदेशिन्यौ धातुर्मूलं कनिष्ठिका | मध्यमानामिका जीवः सामुद्रिकमते मतः ॥ ४ ॥ द्विपादौ मध्या सावित्र्यौ चतुष्पात्तर्जनी पुनः |
" Aho Shrutgyanam"