________________
( १२२ )
अङ्गुलोऽत्र गुरुलघुः कनिष्ठादिर्लघुर्मृदुः ।
गुरुः खरापुनरुष्णा शीतास्निग्धाति रुक्षका ॥ ८२ ॥ अङ्गुल इति । अत्र शास्त्रे अङ्गुष्ठः अगुरु लघुः सूर्याचन्द्रमसोः स्थिरचररूपयोरवस्थानात् मुनि नभो भावात् जीवप्राधान्याश्च कनिष्ठादिरिति । क्रमसूचा तारा लघुः प्रत्यक्षैव सावित्री मृदुः लघुः सुरेज्यो भृगुजा मृदुश्चेति रत्नमाला वचनात् मृदुरूपशुक्राश्रयात् मध्यागुरुः प्रत्यक्षैव गुरो-रधिष्ठानात् तर्जनी खराभूतत्त्वात् पुनः कनिष्ठा उष्णा तेजस्तत्त्वात् युग्मं घटस्तुला उष्णा इति त्रिलोकदीपकोक्त्या मिथुन राशेस्तन्मूर्धिन सद्भावाच्च शिवाशीता प्रागेव तद्धेतुक्तेः एवं मध्यास्निग्धा तर्जन्यतिरूक्षा पूर्वमतानुसारा द्वेद्या कठोर : स्पर्शः पाषाणादिवत् मृदुसरूतादिवत् गुरुर्वज्रादिवत् लघुरर्क तुलादिवत् शतिमृिणादिवत् उष्णो वन्द्यादिवत् सिग्घोघृतादिवत् रुक्षो भस्मादिवत् इति प्रज्ञापनावृत्तौ ॥ ८२ ॥
आकारव्यवस्थामाह
अङ्गुष्ठो वर्तुलत्रयस्नाकाञ्चनी च प्रदेशिनी ।
चतुरस्राति दीर्घास्या ज्ज्येष्ठा हरुवा शिवा मता ॥ ८३ ॥ अङ्गुष्ठं इति । वर्तुलः वर्तुलौ सौम्यधिषणाचिति भूवनदीप कोक्त्या बुधाश्रयात्
"
―――――――
१
मांसलो वर्तुलस्तुङ्गो भुजङ्गमफणोपमः ।
अष्टस्वामिनो वक्ष इव श्रीवत्सलाञ्छितः ॥ १ ॥
इति योगशास्त्रवृत्तौ तथोक्तेश्च तत एव चन्द्रकालानलं चक्रं व्योमाकार लिखेद्बुधः, इति नरपतिग्रन्थे वर्तुलाकारत्वादङ्गुष्ठे व्योमरूपं विवेकविलासेऽपि स्त्रियाः पादाङ्गुष्ठे दोषायथा अल्पवृत्ते नवक्रेण शुष्केण लघुतापि क चिप्पटे नाति रिक्तेन पादाङ्गुष्ठेन दूषितेति । काञ्चनी त्रिकोणा वहितत्वात् तर्जनी चतुष्कोणा चतुरस्रौ कुजेोष्णग इति तयो स्थानात् भूतत्व स्थाने+
नमो अरिहंताणं ' इति न्यासात् वइकला अरिहंता इति स्तोत्रे
" Aho Shrutgyanam"