________________
( १२१ )
दुर्गन्धा तर्जनी शुद्धः सुगन्धोऽङ्गुष्ठ ईरितः । सुगन्धानामिका किञ्चित् निर्गन्धा मध्यमा लघुः ॥ ८० ॥
दुर्गन्धेति । तर्जनी दुर्गन्धा- अपावित्र्यात्, अत एव पवित्रिका मुद्राया चरणात्तत् पावित्र्य करणमुपन्नम् । अङ्गुष्ठः सुगन्धो भोगिरूपत्वेन विष्णुलक्षणात्, गन्धा अनामिका, किञ्चित् पूजा करणौचित्यात् भगवत्याः -स्वरूपेण गुग्गुलादि सौरभ्यात् किञ्चिदित्युक्तं मध्यमायां निर्गन्धत्वं तद्ङ्गष्ठकापेक्षं निर्द्धनस्य गृहमित्यादिवत्, अन्यथा वर्तुलाधरत्वेन वैश्यजाति त्वाद्गन्ध सद्भावेऽपि न तद्ग्रहणरवश्यमिति । लघुस्तु शुभ गन्धापेक्षया निर्गन्धा अन्यथा म्लेच्छरूप शनिराहु स्थानात् विरसमन्धितापि ॥ ८० ॥
स्पर्शनाह
कठोरोष्टको गुर्वी मध्यारूक्षेोष्णकादिमा |
कनिष्ठा कोमलालवी लक्ष्मी स्निग्वाहिमाशिवा ॥ ८१ ॥ कठोर इति । अङ्गुष्टः कठोरोङ्गुलीवन्नमनाभावात् खेः स्थिररूपस्य स्थानाच्च गुर्वी मध्या अध्यक्षसिध्यैव । तर्जनी रूक्षा तन्मूळे मृगराशेः
रूक्षरूपस्य सद्भावात्
वृषकन्या मृगारुक्षा उष्णाशीताश्रवातुलाः ।
एषां स्वामी दिने शुक्रो रात्रौ चन्द्रः सदाकुजः ॥ १ ॥ इतिश्री हेमप्रभसूरिकृते त्रैलोक्यदीप के ज्योतिः शास्त्रे उष्णत्वमपि तत एव प्रत्येयं दग्धस्थानं कुजे प्रोक्तमिति वचनात् रुक्षोष्णत्वे द्वेऽपि कुजाश्रयाद्बोध्ये कनिष्टा कोमलाल स्पर्शाच प्रत्यक्षैव नक्षत्रचक्रे मृदुरूपायाश्चिलायास्थानात् लक्ष्मीः स्निग्धाजल तत्त्वस्थानात् तुला वृश्चिक मकर कुम्भ मीन कर्क वृषाः सजला - आर्द्रा स्निग्धा इति त्रैलोक्य दीपिकोक्त्या तुला वृश्चिकयोराश्रयाच्च शिवाहिमा मार्गशीर्षाश्रयात् वामहस्ते तु चन्द्रप्राधान्येन शुक्रस्य शिवा स्वामित्वेन उभयोर्जल चारित्वाच्च ॥ ८१ ॥
अत्रापि मतान्तरे भोजकृत सामुद्रिके तच्छलोकमेवाह-
"Aho Shrutgyanam"