________________
(११५) तत्तद्दिकस्वरूपाङ्गुलिवर्णस्यैव वर्णस्य प्रतिपत्तिः तेन ताराया हरिद्वर्णत्वेन तलस्य पश्चिमदिग् भागस्थ नक्षत्राणां पृष्टरूपतया श्यामत्वयोगऽपि न विरोधः, एतेन दिग् लभ्यत्रत्तत्तद्वर्णवस्तुनो लभ्यमित्यपि बोध्यम् । कश्चित्तु अङ्गुष्ठाद्याः पञ्चवर्णाः ज्ञेयास्ते केत्याह-सितः अङ्गुष्ठः शिवरूपत्वेन उज्वलत्वात् तर्जनीपीता पृथिवी तच्चस्थानात् पृथिव्याः पीतत्वं आपः श्वेता: क्षितिः पीता इति स्वरोदये मध्या अरुणा अरुणो बाल सन्ध्याम इति कोशकारवचनात् पातरक्तवर्ण वरूपवर्णवती । तत एक-धीषणः कनकातिस्तस्याः स्वामी वृश्चिको धन्वी चेति उभयराश्योः पिशंगयोस्तत्र व्यवस्था राशिचक्रेऽपि सौभाग्यरूपत्वाद्वाममध्याया रक्तत्वम् । तथाशिवानीलवर्णावायू तच्च स्वाश्रयात्, श्यामाकनीनिका—'कालंगुलीइ रेहा परसिणी लघिरुण जम्य गया' इत्यग्रे प्रकरण कारवचनेन आयुषो रेखायाः कालरूपत्वेन यमुना स्वरूपाया मूलत्वात्, इत्यपि सूत्रं व्याख्याति ।
अत्यान्तर्ये भूतानां तत्वानां पञ्चकं विचार्य यथेत्यग्रे वाक्योपन्यासार्थम् ॥ ६७ ॥
तदेवाह---
तर्जनी पृथिवी मध्या जलं वायुरनामिका । ___कनिष्ठातेज इत्युक्तमङ्गुष्ठे व्योममूर्द्धगम् ॥ ६८ ॥ तर्जनीति । अत्र एकैकस्य कलाः पञ्चक्रमेणैवो दयन्ति च पृथ्वी आपम्ततस्तेजो वायुराकाशमेव चेति नरपतिग्रन्थे तथा भणनात्, आद्य तत्त्वं भूराद्यागुल्या प्रदेशविद्यतेऽस्यामिति प्रदेशिनीत्यन्वन्मालाधिष्टितत्त्वाच्च मध्याजलं तदनुक्रमादुरुत्त्वाच्च मध्याया हृस्वत्त्वात्तारा या गुरुत्वाच्च शिवावायुस्ततएव तस्या जापप्रारम्भः शिवाया लघुत्वात्, काञ्चनस्य वह्निवीजस्याश्रयान्नक्षत्रचक्रे विशाखेन्द्रामिदैवता व्यवस्थानात् तारा-अमिः ।
१ उत्तरस्यां मानसमरो भावादागमे जलाधिक्यात् ।
"Aho Shrutgyanam"