________________
द्वादशाङ्गुलं माहेन्द्रं षोडशाङ्गुलं वारुणम् ।
अष्टाङ्गुलं वहेद्वायुरनलञ्चतुरङ्गुलः ॥१॥ इति स्वरोदये दीर्घहस्वपरिमाण भणनात्, तथा अहं तत्वोत्तपति नानामीति वाग्मात्रश्रवणातज्जातरोषोरुद्रस्तीक्ष्णया स्वकनिष्टानखशिखयाप्रजापतेः पञ्चमंशिरश्चिछेदेति वह्नि रुपराजस गुणस्थानाच्च, अत्रापि तथात्वम् । परिशेषात् सूर्याचन्द्रमसोरेवस्थानाच्च, अष्टङ्गुष्ठे मूर्द्धभागे व्योमेति. भूतपञ्चव्यव्यवस्था; तच्चान्येप्येवमेवकश्चिद्विशेषस्तदीयोऽग्रेवक्ष्यते ॥६८॥ अथ देहे जीवभावयोरुभयोरवस्थानात् तत् स्वरुपज्ञानाय विभागमाह-- मायाश्चतस्रोऽप्यशूल्यांजीवोऽङ्गुष्ठो बुधेः स्मृतः।
तन्मूलनाडयां हंसोऽयं यत्करोति गतागतम् ।।६९।। __ मायाइति । स्पष्टमेव सहेतुकं तद्वयवस्थापनात् तन्मूलेति मणिबन्धस्थाने देहसुस्थःदुःस्थता ज्ञानहेतुर्वैद्यशास्त्र प्रसिद्धया नाडी तस्यां जीवस्य गतागतं वातपित्तश्लेप्मप्रकृतिव्यञ्जकं प्रतीतमेव, अत एवोक्तं विवेकविलासे, पादाङ्गुष्ठेन तत् षष्ठे गुल्फे जानुनि लिङ्गके, नाभौ हृदिकुचे कण्ठे नासाहक् श्रुतिषु भ्रुवोः ॥१॥
शङ्के मदि कमात्तिष्ठेत् पीयुषस्यकलान्वहम् । शुक्लप्रतिपदःपूर्वे कृष्णपक्षे विपर्ययात् ॥२॥ सुधाकलास्मरोजीव स्त्रयाणामेकवासिताम् । पुंसो दक्षिणभागे स्याद्वामभागे तु योषितः ॥३॥
१ साविन्याः पुत्युर्मारणे रजो बहुलत्वात् पवनरुपं रजोरुप शुक्राश्रपाद्वा। २ नचान पृथिव्यापस्तथा तेजोवायु राकाशमेवेत्यादि क्रमभङ्ग इतिवाच्यम् । क्रमस्या तन्त्रत्वात्, अतएव सुश्रुते तेभ्यो भूतानि व्योमानेलानलजलोW इतिक्रमः यथोत्तरपरिवृद्धिहेतुकः विवेकविलासेऽपि वायो हेरपा पृथ्वार्ष्याम्नस्तत्वं बहेत् क्रमात् इतिवायोरुत्तरोऽग्निः1. ३ सच बहुलमाकाश रजोबहुलो वायुः, सच रजोबहुत्मोऽमि, सच तमो बहुला आपः, तमो बहुला पृथ्वीति सुश्रुते । ४ व्योमसर्वग बहते पुनरिति विवेक विलासक चनादडपूष्ठस्य सर्वाङ्गुलि मिलनम्।
"Aho Shrutgyanam"