________________
अत्रार्थे मतान्तरमाह--- यद्वेति । प्रागुक्तराशिलग्नभावचक्रात् जन्मलग्नाद्वा दिगवि दिशोभेहदृष्ट्या लभ्यालभ्यव्यक्ति या ॥ ६६ ॥ - अथ देहचक्रविवक्षया पूर्वमङ्गपञ्चकं व्यवस्थापयन् अगुलिषु भूतपञ्चक तच्च पञ्चकं च दर्शयति ।
अङ्गुष्ठाद्याः पञ्चवर्णाः सीतपीता रुणा हरित् ।
श्यामश्चेत्ययभूतानां तत्वानां पञ्चकं यथा ॥ ६७॥ अङ्गुष्ठाद्या इति । इदंवर्णपञ्चकं यद्यपि अगुलि स्वरूपचके वाच्यम् । अङ्गुष्ठपञ्चवर्णः स्यादिति वक्ष्यतेऽपि तथाऽपि भूतपञ्चकतः स्थानमिति नष्टवस्तु पृच्छायां वक्ष्यमाणत्वात् प्रासंगिकं गतवस्तुवर्णकथनम् । तत्र अङ्गुष्ठाद्या अङ्गुलयः क्रमात् पञ्चवर्ण १ सीत २ पीत ३ अरुण ४ हरित् ५ रूपाः पृष्टं श्यामरूपमिति ज्ञेय तेन वर्णाः पञ्च अङ्गुष्ठके वाच्याः । तत्र गौरकान्तिः सूर्य: मन्दाकस्य पुप्येण समातिश्चन्द्रः शुकपिच्छसमः सौम्य इति भुवनदीपकोक्त्या ग्रहत्रयस्थानत्वेन वर्णसंकरः सीता उज्वला तर्जनी पूर्वदिग् भागत्वात् पीतालक्ष्मीः बृहस्पतेस्तस्या :स्वामित्वात् उदग् भागरूपतया एकपिंगापरनाम धनदाधिष्ठितत्वाच्च, अत एव तुलाराशिस्तत्रस्थस्तस्य नवांशेषु धनदः स्वामीति सावित्री अरुणाक्षत्रियत्वात्, वाराहरिद्वर्णा अरुणसितहरितपाटलेत्यादिना लघुजातकोक्त्या हरितवर्णमिथुनाश्रितत्वात् नीलश्यामयोरेक्येन शनिराहोस्थानाच्च, पृष्टं श्यामवइस्तस्तमस्विनीति प्राग् वचनात् । न च तत् स्पर्शाद्वर्णज्ञानं तत्र पृष्टे स्पर्श सम्भवातू, किमत्र तदुपादनमिति वाच्यम् । नष्ट वस्तुज्ञाने नक्षत्र चक्रस्य प्राधान्यात् तत्तदगुलिनक्षेत्ररेव तत्तद्वस्तुवर्णबोधात्, अत एवास्य दर्शनाधिकारे संग्रहः ॥ पृष्टनक्षत्राणि तु तले पश्चिमदिग् भागगतान्येव ज्ञेयानि रात्रिप्रत्यासत्या । राहोस्ताराद्वितीय पर्वस्थानवत्, न चैव तलनक्षतेषु को वर्ण; इत्याशङ्कथं दिनं हस्वतलं बोध्यमित्युक्तेराद्यागुलीवर्णस्यव सामान्यतः श्वेतस्य व्यवस्थानात् विशेषतस्तु तलदिगू भागेषु
"Aho Shrutgyanam"