________________
दिग्भागेऽपि विशेषमाह
राजाद्ययोरन्तरेब्धिराद्याधे मे व्यवस्थितः ।
राज्ञो मूले स्वदेश्याद्रि ग्रामोवक्त्रेतु पल्लिका ॥६३॥ राजेति । अङ्गुष्ठपदेशिन्योर्मध्ये पूर्वसमुद्रस्तस्मात् समागतपण्याल्लाभः । आद्यायाः प्रदेशिन्या नक्षत्र त्रयमध्ये-आटो प्रथमनक्षत्रे समुद्रो व्यवस्थितः। अङ्गुष्ठमूले स्वनामनक्षत्रे प्राप्ते स्वस्थात्मनः जन्मापेक्षया यो देशस्तत्र भवः अद्रिग्रामः पर्वतवासिलोकसन्निवेशो वाच्यः । अर्थात्ततो लभ्यमिति भावः । कके करमे पल्लिका भिल्लस्थानम् ॥६३॥
पर्यन्तपर्वता देशो मेरुः करभसीमनि ।
गुर्जराच सुराष्ट्रा चास्ताद्रि रत्नाकरान्तरे ॥ ६४ ॥ पर्यन्तेति । तथा करभेदेशसीमापर्वतास्तथा मरुदेशः ततो लभ्यं ज्ञेयम् । अस्ताद्रिः करमः रत्नाकरो मणिवन्धस्तयोरन्तरे गुर्जरा सुराष्ट्रादेशस्ताभ्यां लभ्यम् ॥ ६४ ॥ सर्वदेशापेक्षया मध्यदेशमाह--- अङ्गुष्ठमूलेऽक्षयतीर्थमेतत् आद्य प्रपाः पारणके क्टोऽयम् ।
यो मध्यदेशस्तत एव चक्रंदिशां वियोध्यं विदिशांच विज्ञैः॥६५॥ अङ्गुष्ठेति । श्रीऋषभप्रभुतफः पारणास्थानेऽक्षयवटोऽद्यापि प्रयागतीर्थे प्रतीतः; समध्यदेशः सर्वदेशमध्यं अंशे अंशिनोपचारात्, तस्मादेव दिग्विदिक् चक्रं विचार्यमन्यथा स्वजन्मापेक्षयैव मध्यदेशः सामुद्रिकेऽक्षयवटग्रहणमङ्गुष्ठ प्राधान्येन त्रिवेणी स्थानात् ॥ ६५ ॥ विदिग् भागमाह
दिग्भागेयत्तृतीयं भं तद्विदिधिश्नमुच्यते ।।
यद्वास्वजन्मलग्नेन दिग्विदिग्वाविमृश्यते ॥ ६६॥ दिगिति । अश्विन्याद्यपेक्षया तृतीयं पूर्वस्यां नक्षत्रं रोहिणी दक्षिणस्यां पुनर्वसू पश्चिमायां मधा-उत्तरस्यां हस्त इत्ति चत्वारिधिदिग् धिष्ण्यानि शेषाण्यष्टदिग् नक्षत्राणि तद्विमर्शाल्लभ्यविमर्शः । नक्षलव्यवस्थाया तिथिव्यवस्थया वा लक्षणैर्लभ्यकथनाद्राशिमेलक एव लभ्ये परमबीजमित्यावेदितम् ।
ह. सं...८
"Aho Shrutgyanam"