________________
(१०४) यद्दिने वीक्ष्यते हस्ततत्तिथेः स्थानकाग्निजात् ।
आरभ्य गणने वाच्या दिनाः सर्वे शुभाशुभाः॥ ४२ ।। यदिन इति । तिथिस्थानकं निजं यद्दिनमानापेक्षं प्रागुक्तं प्रतिपत् षष्टयादिकं अङ्गष्ठादौ विजानीयादित्यादिकं वक्ष्यमाणं यद्वा एकः १ पञ्चदशै १५ ाराः १० षट् ६ द्वये २ कादश ११ षोडश १६ त्रि ३ सप्त ७ द्वादश १२ त्यष्टि १७ वेदा ४ अष्ट ८ त्रयोदश १३ ॥ १॥ अङ्गुष्ठादेः पञ्च ५ नव ९ तारान्तेस्युश्चतुर्दश १४ पूर्वेपरे गतात् शेषात् दिनमानस्य निर्णयः ॥ २ ॥ इति सामुद्रिकभूषणोक्तं वाज्ञेयं न चैवं त्रेधा दिनमानदर्शनात् न तिथिस्थाननिर्णयः क्वचित्त्रयोदशी स्थानं मध्याशिरः पर्वक्वचित्सावित्री शिरः पर्वेति कुतो दिना गण्यन्त इति वाच्यं तारादि प्रतिपत्प्रभृतिक लघुदिनमानापेक्षं यावन्मेवे तुलायां वा सूर्यः तदाङ्गुष्ठादाविति समदिनराज्यपेक्षं एकः पञ्चदशेत्यादिकं तूत्कृष्टदिनमानापेक्षमिति विवेकात् तेन यदा यदिनमानं तदा तथैव तिथिव्यवस्था, अत्र ग्रन्थे पुरुषाङ्गत्वे न दक्षिणहस्तप्राधान्याद्दक्षिणायने दिनलघुतापेक्षयाबाहुल्येन प्रतिपत् षष्टयादिकमेव दिनमानं संदृब्धं तेन तदपेक्षयैव तिथिव्यवस्था । ततः कृष्णपक्षे हस्ते क्षणे · त्रयोदशी तिथिः प्राप्ताचेतदा मध्याशिरः पर्वणः १४।१।२।३।४। प्रारभ्य तिथिप्वकगण्यते तदनु वामहस्ते त्रयोदशीस्थानादारभ्य पञ्चम्यादिगणनं ततोऽङ्गष्ठपर्यन्तं गणयित्वा वामहस्ते शेषा-. स्तिथी: प्रपूयं पुनर्दक्षिण हस्ते दिनाः पुरणीयाः इति दिनफलं तत्र यद्दिनस्थाने शुभरेखालक्षणं स्वराशिनाथस्तन्मित्रस्थानं तद्दिनं यावज्जीवं शुभं ज्ञेयम् । तदित्तरत्-अशुभं मित्रगृहत्वेऽपि अगुल्यन्तर्गतत्वान्मिथ सामान्यतोऽपि मिश्राणामपि स्वराशिनाथवैरे अशुभं तत्रापि स्वराशीशोदयास्तत्क्रूराक्रान्तं क्रूरदृष्टयादि विमृश्यफलं वाच्यम् । एवं शुक्लपक्षे हस्ते क्षणे वामतस्तत्तत्तिथिस्थानात् प्रारभ्य क्रमाद्दक्षिणेऽपि दिनपूरणं कार्य एवं सकलतिथीनां शुभाशुभादि निर्णयः ॥ ४२ ॥
"Aho Shrutgyanam"