________________
( १०५)
दिनानां स्थानमाह
अङ्गुल्यान्तर्गता दुष्ट रेखा स्थानस्थिता अपि । दुष्टाश्रष्टादिना चान्ये मिश्राप्रदेशिनी दिनाः ॥ ४३ ॥ अङ्गुल्यन्तेति ॥ ४३ ॥
रणार्थे तेऽपि च शुभाः अङ्गुष्ठस्थास्तुभङ्गदाः । धर्माथेष्वपि च शुभाः कनिष्ठास्थास्तदा शुभा ॥ ४४ ॥ रणार्थ इति । धर्मार्थे अङ्गुष्ठादिनाः श्रेष्टाः पञ्चमे शून्यतैव स्यादथवा धर्मवासनेति विवेकविलासे व्योमतञ्चस्थानात् ॥ ४४ ॥
।
रोग शान्तिकादौ श्रेष्टा अनामिकादिना ।
मध्यादिना धनकराः लाभसाम्राज्यदायकाः ॥ ४५ ॥ रोगेति । स्पष्टुं सर्वम् । यत्तु दूतस्य अनामिकाङ्गुलिस्पर्शो रोगिण उपचरणे वाग्भटे निषिद्धस्तत्र शकुनान्वेषणमात्रम् । अत्र तु मम रोगस्य कदा शान्तिस्तदाहस्ते क्षणे दिनानिर्णीयये दिनाः सावित्रीस्थानास्तेषु रोगोपशान्तिर्याच्या इति तात्पर्यभेदात् श्रेष्ठा इत्युक्तं - यद्वा कुमारं शीताभिरद्भिराधास्य यो नियन्त्रमूर्छितं जातकर्मणिकृते मधुसर्पिदुर्वान्ता ब्राह्मीरसेन सुवर्ण चूर्ण मिश्रमङ्गल्याना मिकया लेहयेत् इति सुश्रुते शारीरे तस्या माङ्गल्योक्तेः ॥ ४५ ॥
इति दिनदर्शनचक्रम् ॥
अथ घटीका चक्रमाह
का घटी किशीमे स्यादिति ज्ञेये करे क्षणे ।
या तिथिस्तां निजे स्थाने दत्वा सर्वं विलोकयेत् ॥ ४६ ॥
का घटीति ॥ ४६ ॥
प्रातस्त्यं घटिका युग्मं तिथिस्थाने नियोजयेत् । तदनुक्रमतः पञ्चदशभान्विचारयेत् ॥ ४७ ॥
प्रातस्त्यभिति । यातिथिः प्राप्ता तस्मात् स्थानात् प्रारभ्य अङ्गुष्ठं यावत् गणयित्वा तदनु दक्षिण एवकरे तारादि भार्गेर्दिन घटिकाः प्रपूर्या
"Aho Shrutgyanam"