________________
(१०३)
स्त्रिया आयुर्ज्ञानं स्त्रीवामहस्तादेव । तस्याः पुनः सुखं पुरुषस्य लक्षणी यं चेत्तदा पुरुषस्य वामहस्तरेखया तस्याः स्वभावः प्रतिप्रसंगप्रेमादि कोपि तयैव वेदाः स्वारसिकम्वभावस्तु स्त्रिया वामहस्तरेखा स्वरूपादेवेति न कश्चिद्विरोधः, स्त्रीवोन्मलग्नराशिकुण्डलिका चतुष्टयस्येवप्रमेयावगमे स्व स्व विषये स्त्रीत्रोः करवतुष्कस्य सामर्थ्यादिति । अत एव द्वित्रिचतुष्पञ्चादि बहुस्त्रीपते रस्य स्त्रीपाक्षिकसुखासुखादि वामहस्तरेखाभिर्वेध मन्यथा कस्याः कस्याः स्त्रिया आयुरादिनद्रेखाभिर्लक्षणीयमित्य समंजसं स्यात् तेन मुख्यामुख्यत्वे तत्तद्रेखा प्रतिनियत फलोपभोगजन्य सुखापेक्ष एव अपल्लवा नविछिन्ना वामाय रोविका यदा तदा स्त्रिया समं प्रीतिः प्राधान्यं स्वगृहे भवेत् इत्याद्यग्रे स्पष्टम् । रेखावैकल्य प्रसंग इत्यत्रापि गोत्रधन विद्यादिरेखाणां भिन्नविषयत्वान्नवैकल्यं लग्न पत्रराशिस्त्रयोर्भावानां ताद्रूप्येऽपि फलविशेष एव निवद्यो न चेदेकतरस्य विकलत्वं स्यात् ; तथात्रापि वामावामयोरितिः परं एकसुशीलस्त्री भर्तुः सामान्यगृहपतेर्लोकस्य सर्वाः सन्तान रेखाविकलाः स्युस्तदपत्यानां स्त्रीवामहस्तकरभरेखाभिरेव प्रतिपत्तेः स्त्रीपुंसयोः संतानस्य लक्ष्यस्यैश्यात् न चास्याः परपुरुषोत्पन्नं सन्तानापेक्षया लक्ष्यभेदः शक्यः प्रतिव्रतात्वात् नापि पुरुषस्यान्य स्त्रियां जातसन्तानापेक्षया लक्ष्यभेद एकनारीकत्वात् एवं वामागृष्ठयवरेखायामपि निष्पलत्व प्रसंगोऽपि बोध्यो न च तत्र स्त्रीपक्षविषयः पुरुषस्यैव निशाजन्मलक्षणात् तदुपलब्धिस्तु दक्षिणाङ्गुष्ठयवाभावे न सुबोधैवेति-अत्र बहुवक्तव्यं तथापि ग्रन्थविस्तार भयादुपरम्यते प्राहकारकाः सर्वत्र सर्वदासन्तः प्रभाभिर्विकसन्तः प्रसाद पात्रं विजयं त एव । तत एव स्वयमपि प्राह इदं सामान्यत इति किं आपातमात्र चिन्तनया विशेषस्तु पुंस्त्रयादिकृत इति सचान भावित एवं ॥४१॥ इति पक्षचक्रदर्शनम् ॥ __ अग्रे स्वगेदयभावने सोपयोग व्यक्त्या, अथ के दिनाकिदशा इति ज्ञानाय दिनदर्शनमाह--
१ निकलत्वमित्यपि पाठः ।
"Aho Shrutgyanam"