________________
( १०२ )
तेन पूर्णायां हस्ते क्षणे वामाङ्गुष्टे यवादि शुभलक्षणे सति दक्षिणहस्तेष्ठ यवेऽपि रात्रिजन्मरूपं शुभंकलं कृष्णपक्षे दक्षिणाङ्गुष्ठ लक्षणेन वाच्यम् । तदेवं विवेकविलासोक्तं शुक्लपक्षे तदा जन्म दक्षिणाङ्गुष्ठ गैश्चतैरित्यपि समर्थित कृष्णपक्षे हस्तदर्शनात् तथा च उभयत्र यवोदये यत्पक्षे हस्तेक्षणं तत् प्राधान्यात् तत् फलव्यक्तिरिति वक्ष्यतेऽपि नन्वेवं ग्रोत्रधनायुरादिविमर्शो य एव दक्षिणे स एव वामेपि स्यादिति संपन्ने तथा च वामावामयो रेखा साम्यापत्तिः न चैतदिष्टं सर्वत्र प्रत्यक्ष विरोधात् किञ्च वक्ष्यमाणः श्वश्रुर्वामे मातृरेखा श्वसुरः पितृरेखया इत्यादि रेखाविमर्श भेदोऽपि न संगच्छते एकस्यैव गोत्रादेः प्रमेयभावस्य वामावामयोरेखाभिर्लक्षणीयत्वात् एकत्र रेखायाश्चरितार्थते । अपि च किं मुख्यत्वं किं चान्यत् यो भावो दक्षिण हस्तरेखया लक्ष्यते । स एव चेद्वाम हस्ते तथैव लक्ष्यते तदापैौनरुक्त्यं अन्यश्चेल्लक्ष्यस्तदा किं मुख्यमुख्य वितर्केण अथ स एव भावो विशिष्ट तथा । लक्ष्यते यथा कृष्ण हस्तदर्शने वामावामयोजक्तिरेखा साम्येऽपि पुरुषस्यायुराधिकं वाच्यम् । शुक्ले तु नार्या आयुः एवं भाग्यघनरेखादिष्वपि भाग्यं कृष्णे सन्तानरेखाभिदक्षिणकरमे पुत्रापुत्र्यश्च प्रधानरूपाः प्रियाश्च शुक्ले ताभिरेव प्राधान्येन प्रेमपात्र तया वा वणिक् पुत्र सेवका लक्षणीया इति चेन्न एवं सन्ततिरेखाभिः करमेवामे वणिकपुत्राश्च सेवका इत्यादि वक्ष्यमाणग्रन्थ वैयर्थ्यात् अन्योन्यं रेखाणां प्रतिबन्ध कतापत्तेश्च तेन भिन्न एव वामावामयोर्भावारेखाभिर्लक्ष्यः दक्षिणे विद्यारेखयापठनपाठनरूपाविद्याभावो वामेतयैव विज्ञानमित्यादिवत् । परं दक्षिणे पुरुषस्य स्वगोत्रधनायुषां वैशिष्ट्यं कृष्णपक्षे हस्तदर्शने वाच्यम् । शुक्ले तु स्त्रीसबन्ध गोत्रादीनामिति न चैवं पुरुषस्य वामहस्तरेखा समर्थनेsपि स्त्रिया वामहस्तरेखा वैयर्थ्यं तदवस्थमेव स्त्रिया गोत्रादेः पुरुष वाम - हस्तादेव प्रतीतेरिति वाच्यं स्त्रीपाक्षिक गोत्रघनादेः पुरुषोपभोग्यत्वेन तत् सुखमात्रस्यैव नरवामकररेखाभिर्लक्षणीयत्वात् स्त्रिया उपभोग्यानां धनादीनां स्त्रीवामहस्तरेखा एव लक्षणमिति । विवेकाच्च मत
एक
"Aho Shrutgyanam"