________________
( ८८ )
वर्षाणां शुभाशुभव्यञ्जक लक्षणाक्तिमाह
वीक्ष्या तेषु च या रेखा ऊर्ध्वचक्रं यवोऽथवा । तस्मिन् वर्षे शुभं लक्ष्मीपुत्राद्याप्तिः यशः सुखम् ॥ २५ ॥ तेषु यत्रागता रेखाछिन्नभिन्ना चभेदयुक शुक्तिश्चतुष्किका बिन्दु स्तद्वर्ष दुःखदायकम ||२६|| वीक्ष्या इति । २५ तेष्विति । निगदसिद्धम् || २५ | २६ ॥ वर्षाणामादिमाह
व्यवस्थाप्यादिमं वर्षनिनीकादिपर्वसु ।
विचार्यते पञ्चदशवर्षाणि दक्षिणेकरेः ॥ २७ ॥
व्यवस्थाप्येति । कनिष्टाद्यङ्गुलीनां सर्वासां त्रिष्वपि भागेषु तत्तद्राश्य पेक्षया तत्तत्स्थानेषु आदिमं वर्षं व्यवस्थाप्य कनिष्टामूळे जन्मस्थानात् तस्या एव क्रमात् पञ्चदशवर्षाणि दक्षिणेहस्ते विचार्याणीत्यर्थ ॥ २७ ॥ विशेषमात्राह
ततो वामे पञ्चदश पुनर्दक्षिणवामयोः ।
स्त्रिया वापसव्ये च विमृश्यन्तेऽत्र तत् क्रमात् ॥ २८ ॥ तत इति । वामहस्ताङ्गुली पञ्चदशभागेषु षोडशादीनि त्रिंशत्पर्यन्तानि वर्षाणि विमृश्यानि स्वरोदये नाडीपरावर्तवदत्रापि तत्त्वान्नार्या विपर्ययाद्गुणना । अत्र जागर्तीत्यादि लोकद्वयेोक्तं भावचक्रं प्रागुक्तम् । कस्मिन्नित्यादि प्रस्तुतं वर्षचक्रं पुराण सामुद्रिकशास्त्रेषु विवृतं परं तत् सामान्यापेक्षमेव स्थानमात्रलाभात् जागरूके इत्यादिभावचक्रं सामुद्रिक भूषणे श्री समुद्रसुरिपादैः प्रपंचित तद्विशिष्टमेव स्थानप्रहयोर्लाभात् तत एव वर्ष द्वादशकेन ग्रहचार विशेषात् न वामे वर्षाणि विचार्याणि दक्षिण एव करे तन्नैयत्यव न्न चैवं वामाङ्गुली त्रिभागरेरवावैयर्थ्यं वामहस्तस्य राशिकुण्डलिकारूपतया मेषादिराशिवतां द्वादशभाव चक्रेषु तद्दिन चन्द्रस्थानमेव वामाङ्गुलि त्र्यंशेषु दत्वा तद्भावविमर्शनात् । यथा ज्योतिःशास्त्रे लग्नाद्भावास्तथी चन्द्रादपि जायन्ते । १ लग्नानिशाकरा द्वायन्नवमं भवनं भाग्यमिति । सारावलीवाक्यात् ।
"Aho Shrutgyanam"