________________
(८७)
तत्रापि विशेषमाह.
नष्टजातकानुसारः शुक्रबुधयोर्व्यवस्थायां अत्र लग्नपतिर्यदि लमे इत्यादि श्रीभद्रबाहु परमगुरुप्रणितसंहिताशास्त्रांत भावविमर्शस्तदभावेऽन्यतीर्थाय सभायां यवनजातकात्तथा वर्ष शुभाशुभ ज्ञानायास्य चक्रस्योपयोगात् पद्मकोषात् ताजिकग्रन्थात् कार्यः ।
भावा इति । ग्रहाणां स्वस्वस्थान स्पष्टस्थित्याभात्रकुण्डलिकारूपस्वाच्चक्राणामिति । एतद्भाव फलज्ञानेनैव हस्ततलास्थित गोत्रधनादिरे - खाणां जन्मपत्र स्थानीयानां फलव्यवस्थिति । अत्र सूत्रोक्तराशिचक्राणि वृत्तावपि लेख्यानि । एकत्वादि सूर्यस्य कुम्भराशिगतत्वेन कूजस्य मोनस्थितत्वेनेत्यादि सर्वत्र ऐक्यं भावेषु पुनर्भेदः प्रकट एव । यद्यपि सर्वत्र धनुराशौ गुरोः सद्भावात् मेषराशिकस्य भाग्यस्थानेन त्रिकोणगतादित्वेन च बलवत्वमेव तथापि दक्षिणहस्ते मध्यातृतीयभागे चक्रादिरखया पूर्णफलत्वं शुक्त्यादिरेखया न्यूनफलत्वं च सामुद्रिकाधिकारात् वाच्यम् । एवं सर्व ग्रहस्थानादिषु बलाबलं विचार्यम् ।
अत एव मतान्तरं द्वितीयं पुरः प्राह
कस्मिन् वर्षे शुभं कस्मिन् न शुभं वा भवेन्मम् । इति ज्ञेये पञ्चदशभागाः पञ्चाङ्गुलभिवः ॥ २४ ॥
कस्मिन्निति । पञ्चदशतीथीनां स्थानानि पञ्चदशभागाः तत्तद्राशि मनुष्याणां तत्तत् स्थानादेव वर्षगणना न चैवं कर्कराशिवतां गौर्या आद्यांशाहर्षगणना यद्वा अङ्गुष्ठाग्रभागादिति संशयापतिः कृष्णपक्षे हस्तेक्षणे गौर्या आयांशात् शुक्लपक्षेष्ठाप्रादिति विवेचनात् । तत्रागुष्ठाये प्रथमं वर्षे द्वितीयं कनिष्टाद्यपर्वणि तृतीयं तत् द्वितीयांशे चतुर्थं तत्तृतीयांश इति पुंस्त्वेन पञ्चदशवर्षाणां दक्षिणकर एवं नियमनात् तथैवानन्तरं भणितिरपि ॥ २४ ॥
"Aho Shrutgyanam"