________________
( ८६ )
अत्रेति भाष्यम्
सर्वं प्राञ्जलमेव । यत इति उक्तमेतत् सामुद्रिक भूषणे तन्नास्ति, यन्न हस्तेऽस्मिन् विज्ञानं हि चराचरं हस्तज्ञानं बुधैः प्रोक्तं- तत् सामुद्रिक भूषणमित्यादिके शतश्लोक प्रमाणे आद्याद्वितीय भागस्थं न त्वनामिका द्वितीयभागे सिंहराशि राशिक्रमाद्विमृश्येति 1 भावशुक्रस्य रविरिपोस्तत् स्थानात् । आद्याङ्गुली मित्रस्यमङ्गलस्य स्थानं पूर्वदिग् बद्धाच राशिरपि तत्र कुम्भ एव सूर्यस्य प्रवर्द्धमानतेजः कारणं सिंहादिमकरान्तं सूर्यस्य कुम्भादिकर्कान्तं चन्द्रस्यक्षेत्रमित्युक्त्या राशिषट्के सिंहवन्मुख्य सिंहस्थेगुरौ तीर्थ मेलकवत्तत्रापि तन्मेलकात् प्रशस्तं तत्रैव सूर्यं न्यस्य लमभावविमर्शः कार्य इति । वर्जनी मेरुमादायेत्वादौ मेरुसम्बन्धात् ताम्रमुद्राश्रयाच्च तथापित प्रभाकरक्ष्माजावित्यादिना प्रायः सूर्यकुजयोस्तुल्यप्रकृतिकत्वादित्युक्तं प्राक् माद्याद्वितीयां शस्तु बाहुल्यात् तेनामावश्यां तृतीयभागेऽपि दर्शे सूर्येन्दुसङ्गम इति सूत्रणात्, न चैवं कदाचिन्मूलभागेऽपि तच्चिन्ता अङ्गुष्ठे वस्तुतो भागद्वयात् खेः स्थैर्यात् व्योमदर्शित्वात्तदनुरोधेन तर्जन्या अपि मूलांश निषेध एव । बुधस्तु इति मिथुनस्य ज्योतिषाभिप्रायेण राहुणा सामुद्रिकपेक्षया शनिनारुद्धत्वात् कन्याया अपि ज्योतिर्मते राहुस्थानात् सामुद्रिके क्लीबस्य न कन्यानुराग इति तस्य स्थानाभावाद्रवेरनुसरणं स्वल्पप्रकाशादिति । तत एव नमस्कारस्तवे बुद्धो सिद्धायेत्युक्तिः पूर्वं तु रविमङ्गलासिद्धगुरु बुहासुरीति । शुक्रोऽपीति प्रागेवतद्धेतोरुक्तेः सूर्यापेक्षचार एवायम् । अथैषां परावर्तविधि पताका यन्त्रानुसारादाहरविः कुजो गुरुर्मन्दो राहुश्चैते धुवाग्रहाः । शशिशशिसुतः शुक्रश्वलादेया विस्मृश्यते ॥ २२ ॥ रविरिति स्पष्टं ॥ २२ ॥
वर्षद्वादशके चारी ध्रुवाणामपि जायते । मूलाग्र राशौ ते देया राहुर्मूलाश्व पृष्ठतः ।। २३ ॥ वर्षेति ॥ २३ ॥
"Aho Shrutgyanam"