________________
(८९)
तत एव सार्वत्रिक जन्मलग्नकुण्डलिका राशिकुण्डलिका चेति द्वयं, तथा त्रापि दक्षिणहस्तो जन्मलग्नस्थानं तदङ्गुली तद्भावे चक्रं वामहस्तो राशिकूण्डलिकास्थानं तदङ्गुलीषु चन्द्रादिक मेव भावचकं ज्ञेयम् । तन्न्यासविधि स्थापना यथा तत्रमेषराशिकनरस्य यल्लग्नभावचक्रं तदेव राशिभावचक्रं तद्दिने मेष एव चन्द्रात् स्थापना तथा तत्र प्रथमं यन्त्रं मेष राशिकनरस्य मेष एव चन्द्रे साहिति हस्तवीक्षणे द्वितीयं यन्त्रं वृषराशिकस्य मेषे चन्द्रे तृतीयं मिथुनराशिकस्य मेषचन्द्रे चतुर्थ कर्कराशिकस्य मेषेचन्द्रे सति हस्तनिरीक्षणे एवं .सर्व राशिषु चन्द्रराशिभावचक्राणि ज्ञेयानि । परं वामहस्तरेखादिविचारणया पूर्णमपूर्ण वा फलं वाच्यम् । वृषराशिकनरस्य मेषचन्द्रदिने हस्तेक्षणे राशिभावचक्रे कनिष्टा द्वितीयांशे वृषस्थानत्त्वात्तत्र चन्द्रा0 मेषं दत्वा ग्रन्यासस्त्वेवं दशमे रविः, एकादशो मङ्गलः, द्वितीय शनिः, राहुमूर्ती बुद्धा द्वितीयांशत्वात् पृष्टे नवमः, अष्टमे गुरुः शुक्रो विषमाङ्गुली द्वितीयांशत्वात् सूर्यादने एकादश इति ननु एतद्राशिभावचक्रस्य किंफलं वर्षाणां सर्वेषां शुभाशुभ ज्ञानस्य दाक्षिणकर एव निर्णयात् इति चेत् रात्रौ घट्यादिविचारे तथोत्तरायणे मासविमर्श तथास्पर्शपृच्छायां प्रभवादिवर्षज्ञाने च तदुपयोगात् एवाने यत्पक्षे दर्शयेद्धस्तं स मुख्योऽन्यस्तदन्यथेति वक्ष्यति । अत्र अश्विन्याश्चन्द्रचके नक्षत्रचक्रे वा प्राधान्यात् मेषचन्द्रगहणमुदाहरणदिमात्रसाधनार्थं न चेत् प्राङ्नक्षत्रनियभादेव हस्ते क्षणे मेषचन्द्रस्यासम्भव एव ॥२८॥ रा.
२ श.चे.रा. १२/
श.
३
श्रीसिद्ध
श्रीसिद्ध । जीव
१०र.
जीव ।
८बु.
..
.
" १ दक्षिणहस्ते भावचक्रे ग्रहन्यासे भावभेदा नतुराशिभेदः । वामेपुनर्ग्रहाणां राशिभेदी न पुनर्भावभेदस्तेनग्रहाणां राशिकलान्येव वक्तव्यानि पुनर्भवफलानिवभावात्
"Aho Shrutgyanam"