________________
૨૦
सामाख
राजा राजसदृशो वा तर्जनीगतयानया ॥ मध्यायां गतयाचार्यः ख्यातो राजाथ सैन्यपः अनामिकाप्रयान्त्यां तु सार्थवाहो महाधनी ॥ कनिष्ठां गतया सत्या तया श्रेष्ठो भवेदबुधः श्लाघ्यश्वोष्णोऽरुणोऽस्वेदोऽच्छिद्रः स्निग्धश्च मांसलः ॥ श्लक्ष्णस्ताम्रनखो दीर्घाङ्गुलिको विपुलः करः पाणेस्तलेन शोणेन धनी नीलेन मद्यपः ॥ पीतेनागम्यनारीकः कृष्णेन च धनोदझितः मणिबन्धात्पितुखा करभाद्विभवायुषोः ॥ रेख्ये द्वे यान्ति तिस्रोऽपि तर्जन्यंगुष्ठकान्तरम् येषां रेखा मास्तिस्रः संपूर्णा दोषवर्जिताः ॥ तेषां गोत्रधनायूंषि संपूर्णान्यन्यथा न तु गत्वा मिलितयोः प्रान्ते द्रव्यापित्रोश्च रेखयोः ॥ गृह विनिर्देश्यो गृहभङ्गोऽन्यथा पुनः आयुलेखा कनिष्ठान्तर्लेखाः स्युर्गृहिणीप्रदा ॥ समाभिः शुभ शीलास्ता विषमाभिः कुशलिकाः आयुर्लेखावसानाभिर्लेखाभिर्मणिबन्धतः ॥ स्पष्टाभिर्भ्रातरोऽस्पष्टतराभिर्जामयः पुनः मणिबन्धोन्मुखाश्चायुर्लेखार्या यत्र पल्लवाः ॥ संपदस्तैर्बहिर्यान्तै र्विपदोऽङ्गुलि सम्मुखैः यवैरङ्गष्ठमध्यस्थै विद्याख्यातिविभूतयः ॥ शुक्ल पक्ष तथा जन्म दक्षिणाङ्गुष्ठव तैः
।। ६५ ।।
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
॥ ७५॥