SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ જન સામુક્તિા પાંચ છે स्वल्पर्धर्मप्रवणा धनहीनाः संवतैस्तथाविषमैः॥ निम्नैः केवलबंधनवधमाजः क्रूरकर्माणः ॥२७८॥ भालस्थलस्थिताभिः सुशिराभिरधमाः सदैव पापकराः॥ अभ्युन्नताभिराब्यास्ताभिरपि स्वस्तिकाकृतिभिः ॥२७९॥ रेखाभिर्वर्षशतं पञ्चभिरायुर्ललाटसंस्थाभिः ॥ पुरुषाणां स्त्रीणां वा कर्मकरत्वं करोति श्रीः ॥२८ ॥ भालस्थलस्थितेन स्फुटेन रेखाचतुष्टयेन नृणाम् ॥ वर्षाण्यशीतिरायुर्वसुधेशत्वं पुनर्भवति ॥ २८१॥ स्यादायुर्लेखाभिस्तिसृभिर्दाभ्यामथैकया नियतम् ।। शरदां सप्ततिषष्टिं चत्वारिंशदपि क्रमशः ॥२८२॥ भाले लेखाहीने पंचाधिकविंशतिसमाः॥ आयुः स्याद्भवमखिला जायंते संपदः सपदि ॥२८३॥ यदि वा तिर्यग्दी_स्तिस्रो रेखाः शतायुषां भाले ॥ भूभिजुषां तु चतस्रः पुनरायुः पंचहीनशतम् ॥२८४॥ जीवति वर्षाण्यशीतिः केशान्नोपगते रेखें ॥ भालेन वर्षनवतिः पुरुषो रेखाचितेन पुनः ॥ २८५॥ रेखाः सप्ततिरायुः पंचैवानस्थिताः पुनः षष्टिः ।। बह्वयो नृणां शताई दशोनमपि भंगुरा ददते ॥२८६॥ भूयुग्मोपगताभिस्त्रिंशद्वर्षाणि जीवति शरीरी ॥ विंशत्यब्दानि पुनर्लेखाभिर्वा च वक्राभिः ॥ २८७॥ छिन्नाभिरगम्यस्त्रीगामी क्षुद्राभिरपि नरोऽल्पायुः॥ रेखाभिर्मनुजः स्यादित्याह सुमंतविप्रेन्द्रः ॥२८८ ॥ ३५
SR No.009533
Book TitleJain Samudrik Panch Granth
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Jani
PublisherSarabhai Manilal Nawab
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Devnagari & Jyotish
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy