________________
१७१
જૈન સામુદ્રિકના પાંચ ગ્રંથો
आषाणिकरमूलभागान्निः सृत्यांगुष्ठतर्जनीमध्ये । आद्या भवन्ति तिस्रो गोत्रद्रव्यायुषां रेखाः ॥१४३॥ प्रविच्छिन्नाभिच्छिन्नाभिः स्वल्यानि भवन्ति कुलधनायूंपि। रेखाभिर्दीर्घाभिर्विपरीताभिर्भवति विपरीतम् ॥१४४॥ मणिबन्धनान्निर्गच्छति रेखा यस्य प्रदेशिनीमूलम् । बहुबन्धुजनाकीर्णं तस्य पुनर्जायतेऽभिजनः ॥१४५॥ लव्या पुनर्नराणां लघुरिह दीघोऽथ दीर्घया वंशः। परिभिन्नो विज्ञेयः प्रतिभिन्नया च्छिन्नया च्छिन्नः ॥१४६॥ रेखा कनिष्ठिकाया ज्येष्ठामुल्लंध्य यस्य याति परम् । अच्छिन्ना परिपूर्णा स नरो वत्सरशतायुः स्यात् ॥१४७ ॥ यावन्मात्राश्छेदाज्जीवितरेखा स्थिरा भवन्ति नृणाम् । अपमृत्यवोऽपि तावन्मात्रा नियतं परिज्ञयाः ॥१४८॥ पुंसामायुर्भागे प्रत्येकं पंचविंशतिः शरदाम् । कल्ल्याः कनिष्ठिकांगुलिमूलादिह तर्जनीपरतः ॥१४९॥ रेखा मणिबन्धाद्यदि यात्यंगुष्ठप्रदेशिनीमध्यम् । ऋद्धियुतं ख्यापयति विज्ञामविचक्षणं पुरुषम् ॥१५०॥ चेदंगुष्ठं गच्छति सैवं ततो वितनुते महीशत्वम् । यदि सैव तर्जनी वा साम्राज्य मंत्रिपदमथवा ॥१५१॥ निष्क्रान्ता मणिबन्धात्प्राप्ता यदि मध्यमांगुलीररेखा । नृपति सेनाधिपतिं सा कुरुते वा तमाचार्यम् ॥१५२॥ न च्छिन्ना न स्फुटिता दीर्घतरा विगतपल्लवा पूर्णा । ऊर्ध्या रेखा कुरुते सहस्त्रजनपोषमेकाऽपि सा ब्राह्मणस्य रेखा वेदकरी क्षत्रियस्य राज्यकरी । वैश्यस्य महार्थकरी सौख्यकरी भवति शूद्रस्य ॥१५४॥