________________
मेघमहोदये रूपे।वाशब्दौ विकल्पाऔं, उदकस्य योनया परिणामकारणभूता उदकयोनयस्त एवोदकयोनिका उदकजननस्वभावाः। व्युत्क्रामन्ति उत्पद्यन्ते, व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोग्य पर्यायत आचष्टे च्यवन्ते उत्पद्यन्ते, वारं वारं क्षेत्रस्वभावादित्येकम् ॥१॥ तथा देवा वैमानिका ज्योतिष्का नागा नागकुमारा भवनपत्युपलक्षण मेतत्, यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्य, नागादयस्तु विशेषः। एतद् ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय विचित्रत्वाद् वा मृघ्रगतेरिति सम्यगाराधिता भवन्ति । विनयकरणाजानपदैरिति गम्यते ततोऽन्यत्र मरुस्थलादौ देशे प्रदेशे वा तस्यैव समुत्थितमुत्पन्नं, उदकप्रघानं, पौद्गलं पुनलसमूहो मेघइत्यर्थः । उदकपौद्गल तथा परिणतं उदकदायकावस्था प्राप्तम्, अत एवं वियुदादिकरणाद् वर्षितुकामं सत् तं देशं मगधादिकं संहरन्ति नयन्तीति द्वितीयम् ॥ २॥ अभ्राणि मेघास्तैर्वदलकं-दुर्दिनमभ्रवलिकं तस्मिन् देशे समुत्थितमुत्पन्नं वायुकायः प्रचण्डवातो नो विधुनोति न विध्वंसयतीति तृतीयमिति तवृत्तिः ॥३॥ इति स्थानाङ्गसूत्रे ॥ अनूपो' जागलो मिश्र-स्त्रिधा देशो बुधर्मतः । तत्तत् स्वभावं विज्ञाय जलवृष्टिनिवेद्यते ॥८॥ तस्मान् मालवदेशादौ समानेऽपि ग्रहोदये। वृष्टिः स्यादेष नियता कालात् क्षेत्रे यलिष्ठता ॥९॥
जलमयदेश, जांगलदेश और मिश्रदेश, ये तीन प्रकार के देश बुद्धिमानों ने माने हैं, उनके स्वभाव को पहिचानने से जलवृष्टि जानी जाती है ॥८॥ इसी कारण से मालवा आदि अनूपदेशों में समानग्रह याने काकी करने वाला दुष्ट ग्रह के उदय होने पर भी जलवृष्टि नियम से
"Aho Shrutgyanam"