________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
गादाधरी पर्वतविशिष्टवह्नयभावत्वादिविशिष्टश्च न किञ्चिद्वस्तु प्रसिद्धमिति नाति. प्रसङ्गः । तृतीयमपि लक्षणमनयैव रोत्या परिष्कार्यमिति ।
चन्द्रकला 8 आह पर्वतेति । आधेयतासम्बन्धेनेत्यादिः । न किञ्चिदिति । तथाच पर्वतविशिष्टवह्नयभावत्वादेरप्रसिद्धतया न तस्य यद्रूपपदेनोपादानं कथमपि सम्भवतीति हृदयम् । नातिप्रसंग इति । केवलपर्वतत्वावच्छिन्नविषयतात्वस्य केवलवह्नयभावत्वावच्छिन्नविषयतात्वस्य च पर्वतः वह्नयभावः इत्याद्याकारकज्ञाननिरूपितवह्नयभावत्वाद्यवच्छिन्नविषयतायामपि सत्वात् तत्र च प्रकृतपर्वतादिधर्मिकतादृशानुमितिप्रतिबन्धकतावच्छेदकत्त्वविरहेण वह्नयभावत्वाद्यवच्छिन्नविषयतात्वव्यापकत्वस्य अनुमितिप्रतिबन्धकतावच्छेदकत्वेऽसत्त्वात् यद्रूपपदेन पर्वतत्ववह्नयभावत्वादेर्धर्तुमशक्यत्वात् । आधेयतया पर्वतविशिष्टवह्नयभावत्वावच्छिन्नविषयतात्वव्यापकत्वस्य प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायां वर्तमानत्वेऽपि तादृशस्य वस्तुत्वाभावेनालीकतया तस्यापि यद्रूपपदेनोपादानाऽसम्भवान सद्धतायुक्तलक्षणस्यातिव्याप्तिः सम्भवतीति
तु परमार्थः ।
तृतीयलक्षणस्यापि शायमानदोषस्य प्रतिबन्धकत्यमभ्युपेत्यैव वक्तव्यतया तस्य व्याख्यान्तराऽसम्भवादाह तृतीयमपीति । तथाच तृतीयलक्षणस्य दोषलक्षणत्वे यद्रूपावच्छिन्नविषयतासामान्यं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकं तद्रूपवत्त्वमर्थः, दुष्टलक्षणत्त्वे तु प्रथमलक्षणार्थ एव पर्यवसित इति भावः ।
ननु सर्वत्रैव दोषविषयकप्रकृतहेतुविषयकसमूहालम्बनशानस्यापि प्रकृतानुमितिप्रतिबन्धकतया प्रकृतानुमितिप्रतिबन्धकयथार्थज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वमेव दुष्टत्वं वाच्यमिति दोषशानस्य प्रतिबन्धकत्वसम्भवे दोषाणां प्रतिबन्धकत्वाभिधानम
* कलाविलासः तथाप्यसाधारण्येन दुष्ट इतिव्यवहारानुपपत्तिः यद्यपीत्याद्युत्तरग्रन्थाऽसंगतिश्च, तत्र दोषवटितलक्षणस्याभिधानादिति वाच्यम्, तादृशज्ञानीययद्धर्मावच्छिन्नविषयतात्वव्यापकः प्रकृतानुमितिप्रतिवन्धकतानवच्छेदकत्वाऽसाधारण्यविषयिताभिन्नत्वोभयाभाव इतिविवक्षणेनादोषात् ।
"Aho Shrutgyanam"