________________
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
____® गादाधरी ® दकत्वात् । सद्धेतुस्थले च न केवलवह्नयभावत्वादिकं तथा, तदवच्छिन्नविषयतासामान्यान्तर्गतधय॑विषयकज्ञाननिरूपितताहशविषयतानामनुमितिप्रतिबन्धकतानवच्छेदकत्वात् ।
* चन्द्रकला * कतायां तादृशवह्नयभावत्वावच्छिन्नविषयताया अवच्छेदकत्वं तथा धूमवान् वढेरित्यादावपि वह्निनिष्ठधूमाभावववृत्तित्वरूपव्यभिचारविषयताया अपि तथात्वमित्यनयैव रीत्या व्यभिचारिणि वह्नयादावपि लक्षणसमन्वयः स्वयमूहनीयः। पर्वतो वह्निमान् धूमादित्यादिसद्धतावतिव्यातिं वारयति सद्धतुस्थल इति । पर्वतादिपक्षकवह्नयादिसाध्यकधूमादिहेतुकस्थले इत्यर्थः । तथा = यद्रूपान्तर्गतम् । कुत इत्याकांक्षायामाह तदवच्छिन्नति । केवलवह्नयभावत्वावच्छिन्नविषयतासामान्यान्तर्गतायाः पर्वतादिरूपधर्म्यविषयकज्ञाननिरूपितवह्नयभावत्वावच्छिन्नविषयतायाः प्रकृतानुमितिप्रतिबन्धकतानवच्छेदकत्वादित्यर्थः ।
ननु केवलवह्नयभावत्वादेः यद्रूपपदेनोपादानाऽसम्भवेऽपि आधेयतासम्बन्धेन पर्वतविशिष्टवह्वयभावत्वादिकमेव यद्रूपपदेनोपादाय सद्धेतावतिव्याप्तिः सम्भवतीत्यतः
कलाविलासः तादृशज्ञानमादायातिव्याप्तिदानाऽसंगतिः स्यादिति चेन्न, ज्ञानभेदेन विषयताभेदमङ्गीकृत्यैवैतल्लक्षणकरणात् , अग्ने च समानाकारकज्ञानीयविषयताया ऐक्यं स्वीकृत्य दोषस्य वयमाणत्वात् । एवञ्चानाहार्याप्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तिरवभ्रमानास्कन्दितनिश्चयवृत्तित्वं यद् पावच्छिन्नविषयतायां निवेश्यम् , अन्यथा अस. म्भवापत्तेः । श्रव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वनिवेशे वृक्षः कपिसंयोगी एतवृक्षत्वादित्यादौ कपिसंयोगाभाववद्वक्षमादायातिव्याप्तिरतोऽव्याप्यवृत्तिस्वभ्रमानास्कन्दितत्वनिवेशस्तथासति वृक्षे कपिसंयोगाभावोऽव्याप्यवृत्तिरित्याकारकाव्याप्यवृत्तित्वज्ञानास्कन्दितनिश्चयस्यापि अव्याप्यवृत्तित्वभ्रमानास्कन्दिततया धर्तुं शक्यत्वान्नातिव्याप्तिः। नचैवमसाधारण्येऽव्याप्तिः, पक्षधर्मताज्ञानासमानकालीनतादृशासाधारण्यविषयताया अपि तादृशविषयतासामान्यान्तर्गततया तस्याःप्रतिबन्धकतानवच्छेदकत्वादिति वाच्यम्, अस्य दुष्टलक्षणत्वेन दोपलक्षणस्वाभावात् , असाधारण्यनियतवाधस्वरूपासिद्ध्याद्यन्यतमदोपमादायैव हेतौ दुष्टत्वसम्भवात् । नच
"Aho Shrutgyanam"