________________
८४ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम्
® गादाधरी 8 ___ यद्यपि अस्य दुष्टहेतुलक्षणत्वे ज्ञायमानदोषप्रतिबन्धकतामतानाश्रयणेपि तद्रूपावच्छिन्नपक्षसाध्यहेतुकानुमितिप्रतिबन्धकप्रमाविषयतद्धतुतावच्छेदकवत्त्वं तद्रूपावच्छिन्नपक्षसाध्यहेतुकस्थले तेनैव रूपेण दुष्टत्वमित्यर्थकतामुपगम्य यथार्थपदसार्थक्यमुपपादयितुं शक्यते । तथापि दुष्टस्य दोषधटितत्वानुरोधेन तन्मतमवलम्ब्य षष्ठीसामास आहत इति ।
ननु द्वितीयतृतीयलक्षणयोर्दोषेऽतिव्याप्तिरव्याप्तिश्च
चन्द्रकला संगतमित्याशंकते यद्यपीति । प्रथमलक्षणस्येत्यर्थः । तद्रूपति साध्यहेतावप्यन्वितम् प्रकृतपक्षाद्यर्थकम् । यद्पावच्छिन्नहेतुकानुमितिस्तद्रूपावच्छिन्नस्यैव दुष्टस्वमित्याह तेनैवेति । हेतुतावच्छेदकादिरूपेणेत्यर्थः । तेन हृदो वह्निमान् धूमादित्यादौ वह्नयभाववद्धदत्वादिना न धूमस्य दुष्टत्वापत्तिरिति ध्येयम् ।
शक्यत इति । तथाच यथार्थपदानुपादाने पर्वतो वह्निमान् धूमादित्यादौ धूमादिसद्धेतावव्याप्तिः, पर्वतो वन्यभाववान् धूमश्चेत्याकारकसमूहालम्बनशानस्यापि पर्वतादिमिकतादृशानुमितिप्रतिवन्धकतया ताशसमूहालम्बनभ्रमविषयहेतुतावच्छेदकवत्वस्य धूमादी सत्त्वात् , अतो यथार्थपदोपादानमिति भावः।
समानाकारकज्ञान विषयताया ऐक्यमभ्युपेत्येदम् । तेन हृदो वह्निमान् वह्निमद्धदादित्यादौ प्रकृतहेतुविषयकदोषज्ञानस्याहार्यतया भ्रमत्वेऽपि न क्षतिरिति मन्तव्यम् ।
उत्तरयति तथापीति । निरुक्तरीत्या प्रथमलक्षणस्य दुष्टलक्षणत्वसम्भवेपीत्यर्थः । दोषेति । दोषवत्त्वं दुष्टत्वमित्यनुरोधेनेत्यर्थः। तन्मतमवलम्ब्य - दोषाणाम् प्रतिबन्धकतामतमवलम्ब्य । निरुक्तदुष्टलक्षणस्य दोषाऽघटितत्वादिति हृदयम् । - इदमुपलक्षणम् , लक्षणान्तरत्वमप्यस्येति द्रष्टव्यमिति ध्येयम् । अग्रे चेत्यादिदी. धितिमवतारयति नन्विति । तथाच द्वितीयतृतीयलक्षणघटकतत्त्वस्य यथाश्रतार्थपरत्वे
कलाविलासः ज्ञानभेदेन विषयताभेदानभ्युपगमे तु अनाहार्यत्वादिविशिष्टयद्र पावच्छिन्नविषयताशालिनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्वाऽसाधारण्यविषयिताशून्यस्वोभयाभावस्तद्र पवत्त्वमिति विवक्षणीयम् । एवञ्च पाषाणमयत्ववान् वयभाववानितिज्ञानाऽकालीनपापाणमयत्ववत्पर्वतनिश्चये निरुक्तोभयाभावाऽसत्वान्न कोऽपि दोष इति ध्येयम् ।
यथार्थपदसार्थक्यमुपपादयितुमिति । अथ यादृशस्थले हृदादौ वह्नयाधनुमितौ वह्निमद्हदकालीनधूमादेहेतुता तत्र वह्नयभाववढ्दरूपदोषविषयकहेतुतावच्छेदकविषयकसमूहालम्बनज्ञानस्याहार्यतया सत्र प्रकृतानुमितिप्रतिबन्धकत्व
"Aho Shrutgyanam"