________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
ॐ गादाधरो कचिद्धतौ, यत्पदेन दोषस्यैवोपादेयतया तत्त्वस्य तन्मात्रवृत्तित्वादत आह तत्त्वमित्यस्येति । प्रथममात्रस्य दुष्टहेतुलक्षणत्वेनैवोपपत्तौ चरमयोर्दोष. लक्षणत्वमेवोचितम, तत्त्वमित्यस्य यथाश्रुतार्थकत्वानुरोधादतस्तथैवाह श्राद्यस्यैवेति । ईदृशव्याख्याया निर्दोषत्वात् प्राहुरित्युक्तम् ।
ॐ चन्द्रकला 0 तस्य यत्पदोपस्थाप्यमात्रवृत्तितया हृदो वह्निमान् धूमादित्यादौ वह्नयभाववद्धदरूपदोषेऽतिव्यासिः, तस्य वह्नयभावविशिष्टहृदमात्रनिष्ठत्वात् ह्रदो वह्निमान् वढथभाववज्रदादित्यादौ दोषस्येव दुष्टहेतुतया तत्वस्य वह्नयभावविशिष्टहृदनिष्ठत्वेन दुष्टहेतौ लक्षणसमन्वयसम्भवेऽपि हृदादिपक्षकवह्नयादिसाध्यकधूमादिहेतावव्याप्तिश्चेति समुदितार्थः पयवसितः। कचिद्धतौ = दोषातिरिक्तदुष्टहेतौ। तन्मात्रेति । दोषमात्रवृत्तित्वादित्यर्थः । आहेतिदीधितिकार इति शेषः। तत्त्वस्य तद्वत्त्वार्थकरणे तु न दोषऽतिव्याप्तिः, नवा दुष्टहेतावव्यातिः, तद्वत्त्वरूपदोषवत्त्वस्य दुष्टहेतुमात्रनिष्ठत्वादित्याशयः, तत्त्वमित्यस्य यथाश्रतार्थपरित्यागात् । द्वितीयतृतीयलक्षणे तु दोषस्यैव, प्रथमलक्षणन्तु दुष्टस्यैवेत्यभ्युपगमेऽपि क्षत्यभावात् तत्त्वशब्दस्य लाक्षणिकत्वमयुक्तमित्याशयवतां दीधितिकृतामाद्यस्यैव वेति ग्रन्थावतरणिकामाह प्रथमेति । प्राहुरित्युक्तिं समर्थयति ईदृशेति । प्रथमलक्षणस्येत्यादिः। इति भारतवर्षप्रसिद्ध-साधुवेलाश्रमाधीश-श्रीस्वामिप्रवरोदासीनहरिनामदासविरचिता सामान्यनिरुक्तिप्रथमलक्षणस्य चन्द्रकला टीका समाता।
ॐ कलाविलासः 'विरहेण लक्षणगमनाऽसम्भव इति चेन, तादृशानुमितिप्रतिबन्धकतावच्छेदकोभूतविषयताशालिप्रमाविषयहेतुतावच्छेदकवत्वस्य विवक्षणीयत्वात् । समानाकारकज्ञानीयविषयताभेदविरहेण हेतुतावच्छेदकाविषयकनिरुक्तज्ञानीयविषयतामादाय न काप्यनुपपत्तिः । अत एव यत्र हेतुतावच्छेदकविषयकं ज्ञानं नियतं भ्रमात्मकमेव तत्रत्यदोषेऽव्याप्तिरित्यपि पूर्वपक्षो निरस्त इति कृतं पल्लवितेन । इति श्रीमदुदासीनपरमहंसपरिव्राजकाचार्यस्वामिश्रीहरिनामदासविरचिता
सामान्यनिरुक्तिप्रथमलक्षणस्य कलाविलासनामिका टीका समाप्ता।
"Aho Shrutgyanam"