________________
अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम्
* गादावरी
दोषाणामज्ञायमानतयाऽविरोधित्वेनानुमित्यापत्तेः, किन्तु ज्ञानीयपक्षताव -
८०
च्छेदकाद्यवच्छिन्नविषयतानिरूपितसाध्याभावत्वाद्यवच्छिन्नविषयत्तावत्त्वेन तादृशविषयतया ज्ञानविशिष्टत्वेन वा । तच्च रूपं तादृशभ्रमविषयपदार्थान्तरसाधारणमेदेति तेषामपि तादृशभ्रमदशायां विरोधित्वान्नोक्तापत्तिः । सद्धेतूनामनुमितिप्रतिबन्धकतावच्छेदकनिरुक्तविषयताश्रयवह्नय
भावादिप्रमाविशेष्यत्वादतिव्याप्तिरिति चेन्न,
एवञ्च
* चन्द्रकला
तत्र = तादृशस्थले | दोषाणाम् = हृदादिपक्षवृत्तित्वविशिष्टवह्नयभावत्वविशिष्टनह्रयभावादीनाम् । अज्ञायमानतयेति । घटादिपदार्थान्तरस्यैव ज्ञायमानत्वादिति तात्पर्यम् | अविरोधित्वेन = अप्रतिबन्धकत्वेन । अनुमित्यापत्तेरिति । पक्षधर्मिकसाध्यादिप्रकारकानुमित्यापत्तेरित्यर्थः । ननु तर्हि केन रूपेण बाधादिदोषाणां प्रतिबन्धकतेत्यत आह किन्त्वित्यादि । तथाच हृदादिधर्मिकवह्नयाद्यनुमितिं प्रति निश्चयनिरूपिता या हदादिपक्षतावच्छेदकावच्छिन्नविषयतानिरूपिता वह्नित्वाद्यबच्छिन्नविषयतानिरूपिता भावत्वावच्छिन्नविषयता तद्वत्वेनैव प्रतिबन्धकत्वं वक्तव्यमित्याशयः ।
ननूक्तविषयतायाः प्रतिबन्धकतावच्छेदकत्वाम्युपगमे तस्याः सम्बन्धावच्छि न्नत्वस्यावश्यकतया गौरवमतो लाघवात् तादृशविषयतायाः संसर्गमयोदया भानमाह तादृशेति । पक्षादिविषयतानिरूपितसाध्याभावत्वावच्छिन्नविषयतासम्बन्धेनेत्यर्थः । ज्ञानेति । निश्वयवत्वेनेत्यर्थः । तथाच तादृशविषयतासम्बन्धेन निश्चयस्यैव तादृशप्रतिबन्कतावच्छेदकत्वमिति भावः ।
तच्चेति ताशविषयतावत्वादिरूपञ्चेत्यर्थः । तादृशेति साध्याभाववादिना घटादिपदार्थान्तरावगाहिभ्रमविषयघटादिसाधारणमित्यर्थः । तेषामपि = साहा घटादीनामपि । विरोधित्वात् = प्रतिबन्धकत्वात् । नोक्ता पत्ति: : = न पक्षधर्मिकसाध्यानुमित्यापत्तिः । एवञ्चेति । तादृशविषयतावत्त्वादिना प्रतिबन्धकताया आवश्यकed चेत्यर्थः । सद्धेतूनामपि = पर्वतादिपक्षक वह्नयादिसाध्यकधूमादिसद्धेतूनामपि । प्रमाविशेष्यत्वादित्यमेतनेनान्वयः । अतिव्याप्तिरिति । तथाच पर्व
* कलाविलासः
प्रमेत्वधूमत्वयोरवच्छेदकत्वं तादृशवृत्तिताविशिष्टमिति नातिव्याप्तिः, साधनाप्रसिद्धी. च धूमत्वस्यैव तादृशावच्छेदकत्वं नतु काञ्चनमयत्वस्येति नाव्याप्तिः । न च प्रमेयत घटो दुष्ट इति व्यवहारापत्तिरिति वाच्यम्, तादृशव्यवहारस्येष्टत्वादिति विभावनीयम् ।
"Aho Shrutgyanam"