________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
७२
वादाघरी
तेन प्रकृतहेतुभिन्नस्यापि सम्बन्धान्तरेण दोषप्रमाविषयत्वेऽपि नातिप्रसङ्गः । अग्रेऽपीदृशसम्बन्धेनैव तद्वत्त्वं बोध्यम् ।
अथ ज्ञायमानपक्षनिष्टसाध्याभावत्वादिना बाधादिदोषाणां प्रतिबन्धकता न सम्भवति, साध्याभावत्वादिना पदार्थान्तरस्यैव यत्र ज्ञानं तत्र * चन्द्रकला उज्ञानविषयोभूतप्रकृतहेतुताच्छेदकवत्त्वसम्बन्धावच्छिन्न तादृशदोष निष्टप्रकारताकमित्यर्थः । तेन = निरुक्तदोष निष्टप्रकारताया यथोक्तसम्बन्धावच्छिन्नत्वविवक्षणेन । प्रकृतेति । धूमादिसाध्यकवह्नयादिहेतुभिन्नस्य रासभादेः । सम्बन्धान्तरेण = कालिकादिसम्बधेन । दोषेति । दोषनिष्टप्रकारताकयथार्थ ज्ञान'विषयत्वेऽपीत्यर्थः । नातिप्रसंग इति । दुष्टत्वापत्तिरूपातिप्रसंगो नेत्यर्थः ।
इदमुपलक्षणम्, तादृशसम्बन्धाविवक्षणे प्रकृतहेतुभिन्ने सङ्केतावितरभेदव्यभिचारित्वापत्तिरपि द्रष्टव्या । अग्रेऽपि = द्वितोयादिलक्षणेऽपि । तादृशेति । स्वज्ञानविषयप्रकृत हे तुतावच्छेदकवत्वसम्बन्धेनेत्यर्थः । तद्वत्त्वम् = दोषवस्त्र
मित्यास्तां विस्तरः ।
ननु हृदो वह्निमानित्यनुमितिं प्रति यदि ज्ञानविषयहृदवृत्तित्वविशिष्टवयभावत्वादिना दोषाणां प्रतिबन्धकता तदा वह्न्यभावत्वेन घटावगाहि-हदो वह्वयभाववानिव्याकारत्र ज्ञानविषयस्य तादृशानुमित्यप्रतिबन्धकतया तादृशज्ञानवि
यसवदशायां हृदो वह्निमानित्यनुमित्यापत्तिस्स्यात्, भ्रमविषयस्य दोषत्वाऽसम्भवादिति येन रूपेण तादृशानुमितिप्रतिबन्धकत्वं विचारसहं तद्रूपस्य पर्वतो वह्निमान् धूमादित्यादौ पर्वतादिधर्मिकवह्नयभावभ्रमविषयवह्नघ भावादिसाधारणतया केवलवह्रयभावादिकमादाय तादृशस्थले धूमादिसङ्केतावतिव्याप्यापत्तिरित्याशंकते अथेति । बाधादीत्य श्रादिपदात् व्यभिचारादिदोषान्तरपरिग्रहः । पक्षनिष्टसाध्याभाववादिना पक्षधर्मिकसाध्यप्रकारक बुद्धिप्रतिबन्धकत्वाभ्युपगमे दोषमाह साध्येति । पदार्थान्तरस्य = घटादेः यत्र = यादृशस्थले | ज्ञानम् = निश्चयः । * कलाविलासः
भाववद्दादिरूपदोषविषयक प्रकृत हेतुविषयकज्ञानविषयतावच्छेदकप्रमेयत्ववत्वस्य घटादावपि सत्त्वेन तस्य दुष्टत्वापत्तिभिया स्वज्ञानविषयप्रकृत हेतुतावच्छेदकतापर्यात्यधिकरणधर्मवत्त्वसम्बन्धावच्छिन्नदोषप्रकारताया अवश्यं वक्तव्यतया काञ्चनमयधूम हेतोर्दुष्टत्वानुपपत्तिः, प्रकृतहेतुतावच्छेदकतापर्याप्त्यधिकरणकाञ्चनमयधूमत्वस्याप्रसिद्धत्वादिति चेन्न, प्रकृत हेतुनिरूपितवृत्तिता विशिष्टा वच्छेद कताया एव विवक्षितत्वात् | वैशिष्ट्यञ्च सामानाधिकरण्यसम्बन्धेन, तथाच प्रमेयधूम हेतु कस्थले
"Aho Shrutgyanam"