________________
७८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी के भ्रममादाय सद्धेतावितरभेदव्यभिचारित्वात् यथार्थपदसार्थक्यम्। ज्ञानश्चात्र स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावगाहि ग्राह्यम् ।
* चन्द्रकला लक्षणस्येतरभेदानुमापकत्वे चेत्यर्थः । यथार्थपदसार्थक्यमिति। यदि यथार्थपदं न स्यात्तदा पर्वतपक्षकधूमसाध्यकवह्निहेतुको दुष्टः-स्वेतरभिन्नः तादृशपक्षलाध्यहेतुकानुमितिप्रतिबन्धकधूमाभाववत्तिस्वविशिष्टवहिनिष्ठस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नप्रकारताकज्ञानविशेष्यतावत्त्वादि । त्याकारकलक्षणात्मकेतरभेदानुमापकहेतोय॑भिचारित्वं स्यात् , धूमाभावववृत्तिस्वविशिष्टवालिरूपव्यभिचारस्य स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन वहावेव सत्त्वेन तेन सम्बन्धेन तस्य भ्रमविशेष्यतायाःसद्धतौ तद्रासभेऽपि वर्तमानतया तत्र तादृशदुष्टेतरत्वस्यैव सत्वेन तादृशदुष्टेतरभेदरूपसाध्यस्याऽसरवादतो यथार्थपदम्, तदुपादाने तु नोक्तहेतोयभिचारित्वं पूर्वोक्तव्यभिचारस्ययथार्थज्ञानविशेष्यताया वह्निमात्रनिष्ठतथा तादृशवह्नौ च तादृशदुष्टेतरभेदसत्त्वे बाधाकाभावादिति तु परमार्थः ।
ननु प्रकृतानुमितिप्रतिबन्धकरूपदोषनिष्ठा प्रकारता यदि सम्बन्धसामान्याबच्छिन्ना तदा यथार्थपदोपादानेऽपि धूमवान् वतरित्यादौ रासभादेर्दुष्टत्वापत्तिः कालिकसम्बन्धावच्छिन्नधूमाभाववद्वृत्तिवाहिनिष्टप्रकारताकयथार्थज्ञानविशेष्य • ताया रासमेऽप्यनपायादित्यत आह ज्ञानं चात्रेति । निरुक्तप्रथमलक्षणघटकीभूतं यथार्थज्ञानन्न्चेत्यर्थः । स्वज्ञानेति। स्वम् प्रकृतानुमितिप्रतिबन्धकतावान् दोषस्त
* कलाविलासः सत्त्वेन धूमो दुष्ट इतिव्यवहारापत्तिवारणाय तद्रूपावच्छिन्नहेतुकानुमितिप्रतिबन्धकप्रकारकज्ञानविषयत्त्वं तद्रूपावच्छिन्नस्य दुष्टत्वव्यवहारनियामकं वाच्यमतो न वह्निना धूमसाधने रासभो दुष्ट इति व्यवहारापत्तिरित्यत आह अथवेति । न च वह्निना धूमसाधने आर्टेन्धनप्रभववह्निर्दुष्ट इति व्यवहारापत्तिरिति वाच्यम् , तद्रपमात्रावच्छिन्ने दुष्टत्वव्यवहारनियामकत्वस्य विवक्षितत्वात् । नचैवं वह्निना धूमसाधने अयोगोलकीयवह्निर्दुष्ट इतिव्यवहारानुपपत्तिरिति वाच्यम् , इष्टापत्तेः । नचोक्तलक्षणस्येतरभेदानुमापकत्वे प्रमेयरूपदुष्टहेतोरितराप्रसिद्धथा साध्याप्रसिद्धिरिति वाच्यम् , दुष्टव्यवहारविषयतावच्छेदकानवच्छिन्नप्रकारताश्रयस्यैव तादृशेतरत्वेन विक्षितत्वात् । दोषविशिटस्य प्रमेयस्याऽदुष्टप्रमेयान्तरभेदाभ्युपगमेऽपि तादृशेतरत्वप्रसिद्धिसम्भवाच्च । यत्रेतरत्वस्य प्रसिद्धिस्तत्रैव लक्षणस्येतरभेदानुमापकत्वमित्यस्य स्वीकारेऽपि शत्यभावाच्च । स्वज्ञानविषयेति । ननु हृदो वह्निमान् प्रमेयधूमादित्यादौ वह्नय
"Aho Shrutgyanam"