________________
७७
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
* गादाधरी * न्नोक्तातिप्रसङ्ग इति वाच्यम् , एवमपि वह्निना धूमसाधने रासभो दुष्ट इत्यादिब्यवहारस्य भ्रममादायातिप्रसङ्गादिति यथार्थपदसार्थक्यम् ।
अथवा इतरभेदानुमापकमेवेदं लक्षणम् । तथाच पर्वतपक्षकधूमसाध्यकवह्निहेतुकदुष्टलक्षणस्य तथाविधानुमिति-विरोधि-व्यभिचारादि
ॐ चन्द्रकला * र्थीभूतविशेष्य एव । नोक्तातिप्रसंग इति । तथाच तृतीयान्तार्थवह्नित्ववैशिष्ट्यरूपसमवायानुयोगिताया रासभे विरहात् रासभतात्पर्येण धूमसाधने वह्नित्वेनायं दुष्ट इतिव्यवहारापत्तिरूपातिप्रसंगो न सम्भवतीति तात्पर्यम् । उत्तरयति एवमपीति । निरुक्तस्थले तृतीयान्तार्थस्य विशेष्ये बाधेनातिप्रसंगविरहेपीत्यर्थः । भ्रममादायातिप्रसंगादिति । तथाच वह्निना धूमसाधने रासभो दुष्ट इत्यत्र दूधधात्वर्थः प्रतिबन्धकतावान् साधनपदार्थस्त्वनुमितिमात्रम्। साधनपदोत्तरसप्तम्यर्थनिरूपितत्वस्य दूषधात्वर्थंकदेशे प्रतिबन्धकतायामन्तयः, वह्निपदार्थान्विततृतीयार्थवह्निप्रकारताकज्ञानजन्यत्वस्यापि साधनपदार्थानुमितावन्वयः।
अथवा तृतीयान्तार्थवहिवैशिष्ट्यरूपसंयोगस्य अनुयोगितया विशेष्ये रासभेऽवाधितस्वादन्वयः। साधनपदन्तु लक्षणया वह्निस्वावच्छिन्नप्रकारताकज्ञानजन्यानुमितिपरम् । एवञ्च वह्नित्वावच्छिन्नप्रकारताकज्ञानजन्यधूमसाध्यकानुमितिनिरूपितप्रतिबन्धकतावान् यो धूमाभाववत्तित्वविशिष्टो वह्निस्वन्निष्ठस्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नप्रकारतानिरूपितभ्रीय - विशेष्यतावदभिन्नो वह्निवैशिष्टयानुयोगिरासभ इत्यन्वयबोधस्योक्तवाक्यादुरपद्यमानतया यथार्थपदानुपादाने वह्निना धूमसाधने रासभो दुष्ट इति व्यवहारापत्तेर्वारयितुमशक्यत्वादिति भावः ।
यद्यपि वह्निना धूमसाधने रासभो दुष्ट इत्यादौ वह्निपदोत्तरतृतीयार्थोऽभेदस्तस्य च विशेष्ये रासभे बाधात् न तादृशष्यवहारापत्तिरिति यथार्थपदं व्यर्थमित्युच्यते तदाप्याह अथवेति । इतरेति । दुष्टेतरभेदानुमापकमेवेदं प्रथमलक्षणमित्यर्थः । एवकारात निरुक्तलक्षणस्य दुष्टत्वव्यवहारोपयिकत्वव्यवच्छेदः । लक्ष्यभेदेनेतरभेदानुमापकलक्षणस्यापि भिन्नत्वादाह तथाचेति ।
* कलाविलासः पलक्षितधर्मावच्छिन्न विषयतात्वव्यापकत्वाभावः प्रतीयते, वृत्तित्वञ्च स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्नं ग्राह्यमित्यभ्युपगमेऽपि क्षत्यभावात् । अथवेतरभेदानुमापकमिति । यथार्थपददानेऽपि पर्वतो वह्निमान् द्रव्यादित्यादौ वह्नयभाववद्वृत्तिद्रव्यरूपव्यभिचारस्य तादृशद्रव्यत्वादिमत्वसम्बन्धेन धूमादिहेतावपि
"Aho Shrutgyanam"