________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी तत्प्रकारतायां वा वच्छिन्नत्वार्थकतृतीयान्तलभ्यवह्नित्वावच्छिन्नत्वस्यान्वय इत्यस्यैवोपगन्तव्यत्वात् । नच विशेष्ये वह्नित्वादिधर्मवैशिष्ट्यबोधकपदसमभिव्याहारस्थले दोषार्थकधातोरेव वह्नित्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकोर्थः, अथवा अनुमित्यर्थकसाधनशब्दस्यैव वह्नित्वाद्यवच्छिन्नहेतुकानुमितिरूपविशेष लाक्षणिकत्वम् , दुषधात्वर्थेऽनुमित्यन्तर्भावे साधनपदार्थानन्वयप्रसङ्गात् , तथाच विशेष्य एव तृतीयार्थवैशिष्ट्यान्वयोपगमा
* चन्द्रकला * स्तदा याशस्थले वह्नित्वेन घटावगाहिभ्रमात्मकपरामर्शादेव धूमानुमितिः तादृशस्थले हेतौ वह्नित्ववैशिष्ट्यरूपसमवायानुयोगित्वस्याभानात् तदानीं धूमसाधने वद्वित्वेनायमितिवह्नितात्पर्यकोऽपि व्यवहारो न स्यादित्यत आह तत्प्रकारतायामिति । हेतुप्रकारकज्ञानजन्यानुभितिप्रतिबन्धकरूपदोषपदार्थघटकहेतुप्रकारतायामित्यर्थः। इत्यस्यैवोपगन्तव्यत्वादिति । तथा च धूमसाधने वह्नित्वेनायं दुष्ट इत्यादौ वह्नित्वपदोत्तरं तृतीयार्थोऽवच्छिन्नत्वं निरूपितत्वसम्बन्धेन वह्नित्वान्वयिनस्तस्य तादृशप्रकारतायामन्वयः, एवञ्च भ्रमात्मकतादृशपरामर्शीयकारताया हेतुतावच्छेदकावच्छिन्नतया अनुपपत्त्यभावात् विशेष्ये तृतीयान्तार्थानन्वयेन रासभतात्पर्येण धूमसाधने वह्नित्वेनायं दुष्ट इति व्यवहारवारणं दुःशक्यं स्यात् यदि यथार्थपदोपादानं न स्यादित्याशयः।
पुनः शंकते नचेति । विशेष्ये = रासभादौ । वह्नित्वादीति । हेतुतावच्छेदकार्थकम् । तथा च विशेष्यवाचकपदसमभिव्याहृततृतीयान्तपदजन्यशाब्दबोधे तृतीयार्थस्य वैशिष्टयस्यैव विशेष्ये प्रकारतया भानं भवति, अत एव जटाभिस्तापसो दृश्यते इत्यत्र शाब्दबोधे जटासम्बन्धस्य तापस एव भानं सर्ववादिमिद्धमिति भावः ।
नन्वेवं धूमसाधने वह्नित्वेनायं दुष्ट इत्यादौ विशेष्ये तृतीयार्थवैशिष्टयान्वयाभ्युपगमे साधनपदार्थानुमितौ वतित्वावच्छिन्नहेतुकत्वलाभो न स्यादित्यत आह दोषार्थ केति । निष्टाप्रत्ययान्तदोषार्थकदूषधातोरेवेत्यर्थः । वह्नित्वेति । लक्षणयेत्यादिः
ननु लक्षणया दूषधातोवह्नित्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकपर्यन्तार्थकत्वे साधनपदार्थानुमितेरनन्वयप्रसंग इत्यत आह अथवेति । साधनशब्दस्यैबानुमितिविशेषे लाक्षणिकत्वं नतु दूषधातोरेव तादृशानुमितिविशेषलाक्षणिकत्वमित्याह दुषधात्वर्थ इति । उपसंहरति तथाचेति । विशेष्ये एव = इदम्पदा
"Aho Shrutgyanam"