________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
गादाधरी नच तत्र विशेष्ये तृतीयान्तार्थवह्नित्ववैशिष्ट्यभानाद्रासभे तद्बाधेन नायमतिप्रसङ्ग इति वाच्यम् , तथासति दोषपदार्थघटकानुमितौ वह्नित्वावबच्छिन्नहेतुकत्वाऽलाभात् तल्लाभानुरोधेन हेतुप्रकारकज्ञानजन्यानुमितिप्रतिन्धकरूपदोषपदार्थघटकहेतौ वह्नित्ववैशिष्ट्यरूपतृतीयान्तार्थस्य,
६ चन्द्रकला स्त्रज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन वयादाचेव वर्तमानतया तेन सम्बन्धेन तादृशव्यभिचाराभाववति रासभे तत्सम्बन्धावच्छिन्नव्यभिचारप्रकारताकभ्रमीयविशेष्यत्वरूपदुष्टत्वस्य रासमे सत्वात् रासमतात्पर्येण धूमसाधने अयं दुष्ट इति व्यवहारः स्यात् , यदि यथार्थपदोपादानं न स्यादित्याशयः।।
ननु धूमसाधने वह्नित्वेनायं दुष्ट इत्यादौ वहिरवपदोत्तरं तृतीयार्थों वैशिष्ट्यं तच्च समवायरूपं तस्य च अनुयोगितासम्बन्धेन इदन्वावच्छिन्ने विशेष्ये रासभ एवाम्बयस्यावश्यकतया रासभे च तादशवद्वित्वसमवायानुयोगिरवस्यासत्वात् ब्यवहर्त्तव्यस्याप्रसिद्धया कथं तादृशव्यवहार इत्याशंकते नचेति । वाच्यमिति परेणान्वयः । तत्र = धूमसाधने वह्नित्वेनायं दुष्ट इत्यत्र । विशेष्ये = इदम्पदार्थे । तहाधेन - तृतीयान्तार्थवैशिष्ट्यात्मकसमवायानुयोगित्वविरहेण । नातिप्रसंग इति । न वह्नित्ये नायं दुष्ट इतिव्यवहारापत्तिरूपातिप्रसंगः । व्यवहारं प्रति व्यवहर्त्तव्यज्ञानस्य हेतुत्वेन व्यवहर्त्तव्यस्याप्रसिद्धत्वात् तज्ज्ञानस्यैवाऽसम्भवात् असतः ज्ञानविषयत्वानभ्युपगमादिति हृदयम्। समाधत्ते तथा सतीति । विशेष्ये तृतीयान्तार्थवलित्ववैशिष्टयस्यान्वयाभ्युपगमे सतीत्यर्थः । दोषेति । प्रकृतानुमितिप्रतिबन्धकत्वरूपदोषपदार्थघटकानुमितावित्यर्थः । तल्लाभेति । वह्निस्वादिरूपप्रकृतहेतुतावच्छेदकावच्छिन्न हेतुकस्वलाभानुरोधेनेत्यर्थः । अनुमितौ तस्यालाभे प्रकृतहेतुप्रकारकज्ञानविरोधिस्वरूपासियादिकमादाय स्वरूपासिद्ध हेतौ दुष्टत्वव्यवहारः स्वरूपासिद्धत्वव्यवहारो वा न स्यादितिभावः । वह्नित्वेति । वह्नित्वसमवायानुयोगिस्वरूपस्य वैशिष्टयस्य वह्नित्वसमवायरूपस्य वा वैशिष्ट्यरूपस्य तृतीयान्तार्थस्येत्यर्थः। यदि वह्नित्वेनायं दुष्ट इत्यादौ तृतीयान्तार्थों वतित्ववैशिष्ट्यरूपः समवायस्तस्य च दोषपदार्थघटक हेतावेवानुयोगितयान्वय
कलाविलासः भावप्रकारकान्वयबोध इति व्युत्पत्तेः कथं धूमेन पर्वते वह्निसाधने धूमो न दुष्ट इति व्यवहारः तत्र समभिव्याहतपदार्थान्वितदूषधात्वर्थस्याप्रसिद्धथा तदभावप्रकारकान्वयबोधाऽसम्भवादिति चेन्न, अत्रानन्यगतिकतया तादृशव्युत्पत्त्यस्वीकारेण तत्पक्षकतत्साध्यकतहेतुकानुमितिप्रतिबन्धकतावच्छेदकतायां स्ववृत्तितावच्छेदकत्वो
"Aho Shrutgyanam"