________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी * यद्यपि पर्वतत्वाद्यवच्छिन्ने वह्नित्वावच्छिन्नसाधने धूमत्वावच्छिन्नो दुष्ट इत्यादेः सद्धेतौ दुष्टत्वव्यवहारस्य नापत्तिः, तत्र तत्पक्षसाध्यहेतुकानुमितिप्रतिबन्धकरूपदोषप्रकारकज्ञानविषयत्वस्यैव प्रत्येतव्यत्वात् , ता दशानुमितिप्रतिबन्धकबाधव्यभिचारादेश्वाऽप्रसिद्धत्वात् , हृदादौ वह्नया दिसाधनमादाय च सर्वत्र दुष्टत्वव्यवहार इष्टः, तथापि धूमसाधने वह्नित्वेनाऽयं दुष्ट इत्यादौ वह्नित्वावच्छिन्नहेतुकधूमायनुमितिप्रतिबन्धकदोष. प्रकारकज्ञानविषयत्वस्य प्रत्ययात् वक्ष्यमाणसम्बन्धावच्छिन्नतादृशानुमितिप्रतिबन्धकधूमाभावववृत्तित्वविशिष्टवह्नयादिरूपदोषप्रकारताशालिभ्रममादाय रासभादितात्पर्येणाऽपि तथा व्यवहारः स्यात् ।
* चन्द्रकला * ज्ञानासम्भवादितियथार्थपदसार्थक्यमुपपादयितुं शंकते यद्यपीति । तत्रव्यवहारे। अग्रिमषष्ठ्यन्तार्थान्वयि विषयत्वं सप्तम्यर्थः। ___ ननु हृदादिपक्षकवयादिसाध्यकस्थले बाधादेदोषस्यावश्यकतया तत्प्रकारकज्ञानविषयत्वमादाय घटादेर्दुष्टत्वध्यवहारवारणायैव यथार्थपदं सार्थकं सम्भवती त्यत आह हृदादाविति । सर्वत्रैव = धूमादौ घटपटादौ च । इष्ट इति । तथाचैतन्मतेऽपि यथार्थपदं व्यर्थमिति भावः । यथार्थपदपरित्यागे धूमसाधने वह्नित्वेन अयं दुष्ट इत्याकारके दन्त्वावच्छिन्नरासभतारपर्यकव्यवहारापत्तिः स्यात तादृशव्यवहारप्रयोजकस्य व्यवहत्तव्यस्य धूमस्वावच्छिन्नसाध्यक्रवद्वित्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकधूमाभावववृत्तित्वविशिष्टवह्निरूपव्यभिचारानष्टा या स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्ना प्रकारता तन्निरूपितभ्रमीयविशेष्यस्वरूपस्य प्रसिद्धतया व्यवहारकारणीभूतनिरुक्तव्यवहर्तव्यज्ञानसत्त्वे बाधकामावादतो यथार्थपदमवश्यं देयमिति समाधत्ते तथापीति । इत्यादौ - इत्यादिव्यवहारे । प्रत्येतव्यस्वात् = तादृशविषयस्वविषयकप्रत्ययस्योपादात् । वक्ष्यमाणसम्बन्धेति । स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्वसम्बन्धार्थकम् । तथा व्यवहार इति । धूमाभावववृत्तिस्वविशिष्टवयादिरूपव्यभिचारस्य
* कलाविलासा प्रामाणिकत्वादिति तु विभावनीयम् । यद्यपि पर्वतत्वावच्छिन्न इत्यादि । ननु नअसमभिव्याहारस्थले यत्र धर्मिणि येन सम्बन्धेन यत्प्रकारको बोधोऽनुभवसिद्धः नसमभिव्याहारस्थले तत्र धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद
"Aho Shrutgyanam"