________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
ॐ गादाधरी * ताभिप्रायकतया दृष्टान्तत्वेनोपन्यासः । तदर्थश्चेति । प्रतियोग्यन्तेन व्यभिचारादिदोषानादाय लक्षणं सङ्गमनीयमिति दर्शयितुं व्यभिचारादय इति, नतु तेन रूपेण लक्षणघटकत्वमित्यवधेयम् । एवं च यथार्थपदानुपादाने दुष्टत्वभ्रममादाय प्रकृतहेतुभिन्नेऽतिप्रसङ्ग इति यथार्थपदसार्थक्यम् ।
* चन्द्रकला
तादृशप्रतियोगिप्रकारकयथार्थज्ञानविषयत्वरूपस्य लक्षणार्थत्वं दोषज्ञानस्य प्रतिबन्धकतामते न सम्भवतीति सचितम् । तन्मतम् = ज्ञायमानदोषस्य प्रतिबन्धकतावादिनां मतम् । यद्यपि दीधितिस्थतत्रेत्यत्र तत्पदोत्तरसप्तम्या घटकत्वार्थकरणेऽपि न क्षतिस्तथापि घटकत्वस्य दुनिर्वचत्वमाशंक्य तादृशसप्तम्या निर्धारणार्थकरवं वक्ति तेष्वित्यादि। तृतीयलक्षणे ज्ञायमानदोषस्य प्रतियन्धकताया उभयवादिसिद्धत्वं स्फुटीकर्तुमाह सर्वमत एवेति । दृष्टान्तत्वेनेति । तथाचतृतीयलक्षणभिन्नत्वे सति तृतीयलक्षणलिष्टज्ञायमानदोषप्रतिबन्धकताभिप्रायकत्वं प्रथमलक्षणस्येति तृतीयलक्षणस्य दृष्टान्तत्वसम्भव इति भावः। तादृशाभाव. प्रतियोगिनो ये व्यभिचारादय इत्यत्र व्यभिचारादेर्व्यभिचारवादिना न लक्षणघटकता, तथा सति एकव्यभिचारप्रकारकयथार्थज्ञानविषयत्वस्य लक्षणार्थत्वे तादृशबाधादिप्रकारकयथार्थज्ञानविषयत्वादेर्लक्षणार्थत्वं न स्यादेवमन्यस्यापि, अतो व्यभिचारादेस्तादृशाभावप्रतियोगित्वेनैव लक्षणघटकतेत्याह प्रतियोग्यन्तेनेति । दोषानादाय = तादृशव्यभिचारादीनादाय । तेन रूपेण = व्यभिचारस्वादिरूपेण । घटकत्वमिति। लक्षणेत्यादिः। यद्यपि प्रतियोगित्वमपि प्रतियोगिभेदेन भिन्नमेवेति एकोपादानेऽपरस्यासंग्रहो दुष्परिहरस्तथापि प्रतियोगितायाः प्रतियोगितावच्छेदकस्वरूपस्वमभिप्रेत्यैवेत्यमभिहितमिति ध्येयम् । यथार्थपदानुपादाने पर्वतो वह्निमान् धूमादित्यादिसद्धेतौ पर्वते वह्निसाधने धूमो दुष्ट इति व्यवहारस्तु न सम्भवति, व्यवहारं प्रति व्यवहत्तव्यज्ञानस्य जनकतया व्यवहर्त्तव्यस्य पर्वतपक्षकवह्निसाध्यकधूमहेतुकानुमितिप्रतिबन्धकप्रकारकज्ञानविशेष्यत्वस्य तारशानुमितिप्रतिबन्धकव्यभिचारबाधाद्यप्रसिद्धयाऽप्रसिद्धत्वेन तादृशव्यवहर्त्तव्य
ॐ कलाविलासः ॐ ज्ञानविषयदोषदशायां पुरुषान्तरस्य यथोक्तानुमितिप्रतिबन्धवारणाय तत्पुरुषीयत्वस्यापि निवेशनीयतया गौरवमिति चेन्न, वह्नयभाववान् ह्रदो हृदधर्मिकवह्निप्रकारकबुद्धिप्रतिबन्धक इत्याकारकसर्वजनानुभवानुरोधेन तादृशगौरवस्य
"Aho Shrutgyanam"