________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
* दीधितिः तत्र तृतीयमिव प्रथममपि शायमानव्यभिचारादेः प्रतिबन्धकत्वमभ्युपेत्य । तदर्थश्च तादृशाभावप्रतियोगिनो ये व्यभिचारादयस्तप्रकारकयथार्थज्ञानविषयत्वम्।।
* गादाधरी के वाच्यम् , तद्पावच्छिन्नपक्षकतद्रपावच्छिन्नसाध्यकतद्रपावच्छिन्नहेतकस्थले तेन रूपेण दुष्टस्य लक्षणं यदि तपावच्छिन्नपक्षसाध्यहेतुकानुमितिविरोधियथार्थज्ञानविषयत्वमात्रं तदा ह्रदत्वावच्छिन्नपक्षकवह्नित्वावच्छिन्नसाध्यकधूमत्वावच्छिन्नहेतुकानुमितिप्रतिबन्धकप्रमाविषयवह्नयभाववध्रदादीनां धूमत्वादिना दुष्टत्वाभावादतिव्याप्तिरित्याशङ्कां परिजिहीर्षुः ताहशाभावप्रतियोगिनां ज्ञानमिति षष्टीसमासमाश्रित्य तादृशाभावप्रतियोगिप्रकारकयथार्थज्ञानविषयत्वमर्थ व्याख्यास्यति, तच ज्ञायमानदोषस्य प्रतिबन्धकतामते एव सङ्गच्छते, अतस्तन्मतमवलम्ब्यैवाह तत्रेति । तेषु लक्षणेषुमध्ये इत्यर्थः। तृतीयलक्षणस्य सर्वमते एव ज्ञायमानदोषप्रतिबन्धकताम
* चन्द्रकला * लक्षणगमनं न कामपि क्षतिमावहतीत्याशयः । उत्तरयति तद्रूपावच्छिन्नेति । हृदत्वाद्यवच्छिन्नार्थकम् । द्वितीयं तद्रूपं वह्नित्वादिसाध्यतावच्छेदकार्थकम् । तृतीयञ्च धूमत्वादिहेतुतावच्छेदकार्थकम् । तेन रूपेण = तादृशदक्षतावच्छेदकहदत्वादिरूपेण । तद्रपेति । पक्षतावच्छेदकावच्छिन्नपक्षकसाध्यतावच्छेदका. वच्छिन्नसाध्यकहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिप्रतिबन्धकयथार्थज्ञानविषयस्वमानं यदि स्थादित्यर्थः। मात्रपदेन तादृशानुमितिप्रतिबन्धकप्रकारकयथार्थज्ञानविषयत्वस्य लक्षणत्वव्यवच्छेदः। तदा-निरुक्तानुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वस्थ लक्षणार्थत्ये। धूमन्वादिनेति । वह्नयभाववद्धदत्वादिना दुष्टस्वसम्भवेऽपीत्यादिः । अतिव्याप्तिरिति । वह्वयभाववद्धदादावित्यादिः । इत्याशंकाम्-निरुक्तातिव्याप्त्याशंकाम् । तादृशेति । अनुमितिकारणीभूताभावप्रतियोगिनामित्यर्थः। निरूपकत्वसम्बन्धेन यथार्थ ज्ञानपदार्थान्वयि प्रकारत्वं षष्ट्यर्थः । तादृशाभावेति । अनुमितिकारणीभूताभावप्रतियोगिनिष्ठा या स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धावच्छिन्ना प्रकारता तन्निरूपितविशेष्यस्वरूपं लक्षणार्थमित्यर्थः । व्याख्यास्यतीति । दीधितिकार इतिशेषः । तच्चेति । निरुक्तव्याख्यानञ्चेत्यर्थः । ज्ञायमानदोषस्य = निश्चयविषयीभूतव्यभिचारबाधादेदोषस्य । प्रतिबन्धकतेति । प्रकृतानुमितीत्यादिः । मत एवेति एवकारेण
"Aho Shrutgyanam"