________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
* दीधितिः
केचित्तु दुष्टानामेव हेतूनामेतानि लक्षणानि । * गादावरी
ति । ननु आद्यस्य दुष्टहेतुलक्षणत्वे दोषेष्वतिव्याप्तिः तेषामपि अनुमतिविरोधियथार्थज्ञानविषयत्वात् । न च हृदादिपक्षकवह्रयादिसाध्यवह्नद्यभाववद्धदादिरूपदोषाणामपि दुष्टहेतुतया दुष्टत्वमेवेति
स्थले
·
७१
* चन्द्रकला
प्रकारान्तरेण यथार्थपदसार्थक्यमुपपादयतां मिश्रादीनां केचित्वित्यादिना प्रदर्शितं दुष्टानामेवेत्यादिग्रन्थं व्याकरोति नन्वस्येत्यादि । अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयस्वमिति लक्षणस्येत्यर्थः । दोषेष्वतिव्याप्तिः = हृदो वह्निमान् धूमादित्यादौ वह्नचभावविशिष्टहृदादिष्वतिव्याप्तिः । कथमित्याकांक्षायामाह तेषामपीति । दोषाणामपीत्यर्थः । अनुमितिविरोधीति । अनुमितिप्रतिबन्धकार्थकम् । तथा च यथाश्रुतप्रथमलक्षणस्य हदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहृदादिरूपदोषादावतिव्याप्तिः, निरुक्तमते
प्रथम लक्षणस्यैव दुष्टलक्षणत्वादिति भावः ।
शंकते नचेति । वाध्यमिति परेणान्वयः । दुष्टत्वमेवेति । हृदपक्षकवह्निसाध्यकस्यले वह्नयभावविशिष्टद्धदादेरपि हेतुत्वसम्भवात् तस्य लक्ष्यतया तत्र * कलाविलासः *
केचित्तु संशयान्यत्वस्य अनाहार्यत्वस्य अप्रामाण्यज्ञानानास्कन्दितत्वस्यव तत्तद्व्यक्तित्वेनाभावप्रवेशे गौरवमतोऽभावविशिष्टान्यत्वमेव यद्रूपावच्छिन्न विषयकनिश्चयविशेषणम्, वैशिष्ट्यञ्च स्वाभाववत्त्व - स्वावच्छिन्न प्रतिबन्ध कतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्ननिरूपकता कविषयितावत्त्वोभयसम्बन्धेन,
"Aho Shrutgyanam"
एवञ्चाप्रामाण्यज्ञानद्वयपुटित वाघनिश्चयवारणायाभावविशिष्टान्यत्वस्य लाघवान्निवेशनीयतया तत एव यथार्थपदवैयर्थ्यमिति प्राहुः । वस्तुतोऽभावविशिष्टान्ययद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका प्रकृतानुमितित्वव्यापक प्रतिबध्यतानिरूपित प्रतिबन्धकता तद्रूपवत्त्वमित्येवं यथार्थपदाघटितं लक्षणं वक्तव्यम् तादृशविषयतायामभाववैशिष्टयञ्च स्वप्रतियोगिमन्निष्ठत्व-स्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभय सम्वन्धेन, प्रतियोगिमत्ता च विशेष्यत्व - सामानाधिकरण्योभयस्वरूपान्यतरसम्बन्धेनेत्यपि वदन्ति ।
afrat केचित्विति । ननु ज्ञायमानदोषाणां प्रतिबन्धकत्वे कस्यचित्पुरुषस्य
1